[१]यस्याम्बुकणमादाय प्राप्तोऽसि परमोन्नतिम् ।
तस्योपरि पयोराशे गर्जन्मेघ न लज्जसे ॥ १४५ ॥
चातकः स्वानुमानेन जलं प्रार्थयतेऽम्बुदात् ।
स स्वौदार्यतया नित्यं प्लावयत्यम्बुदो महीम् ॥ १४६ ॥
धाराधर धरामेनां धाराभिरभिवर्षसि ।
खगचञ्चुपुटीद्रोणीपूरणे कः परिश्रमः ॥ १४७ ॥
जलधर तदयुक्तं किल जलपटलं यद्ददासि रसितयुतम् ।
उन्नतिभृतां सतां तनुमनसोऽध्वासौ यतस्त्याज्यः ॥ १४८ ॥
गर्ज त्वं यदि गर्जसि जलधर मा गर्ज गर्ज गम्भीरम् ।
निर्दय पथिकवधूजनहृदयस्फोटेन किं लभसि ॥ १४९ ॥
जलधर एवं महत्सु महानिति महतां स्तुतिविषयः ।
यस्तर्पयति समस्तजगत्कतिपयदिवसाभ्युदयः ॥ १५० ॥
यदि यदि सन्ति कथं न सरिद्वापीकूपसरांसि ।
चातक एष पुनः स्पृहयत्यम्बुदभवदम्भांसि ॥ १५९ ॥
श्यामतां वहतु वातु कठोरं वक्तु चार्कविभवं हरतां वा ।
तद्ददौ किमपि वारिधरस्तु प्रीणितानि बत येन जगन्ति ॥ १५२ ॥
जले कजं तिष्ठति चातकः स्थले केकी वने दर्दुरकस्तडागे ।
चत्वारि मित्राणि मुदं वितेनिरे गर्जारवं कुर्वति वारिवाहे ॥ १५३ ॥
यत्त्वद्गजितमूर्जितं यदपि ते प्रोद्दामसौदामिनी-
दानाडम्बरमम्बरे विरचितं यद्दूरमभ्युन्नतम् ।
तेषां पर्यवसानमेतदधुना जातं यदम्भोधर
द्वित्राः कृत्रिमरोदनाश्रुतनवो मुक्ताः पयोबिन्दवः ॥ १५४ ॥
तृषार्ते पाथोद प्रलपति पुरश्चातकशिशौ
यदेतन्नैष्ठुर्यं तदिह गदितुं मां त्वरयति ।
- ↑ 'यदम्बुकणमादाय प्राप्तोऽसि जलदोन्नतिम् । तस्योपर्यम्बुधे गर्जन्मलिनस्योचिती न ते ॥' इति पाठान्तरम्.