पृष्ठम्:अन्योक्तिमुक्तावली.djvu/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७
अन्योक्तिमुक्तावली ।

 पात्रापात्रविचारसारविरहो गच्छत्युदारात्मतां
  मातर्लक्ष्मि तव प्रसादवशतो दोषा अपि स्युर्गुणाः ॥१३४॥
  समुद्रस्यापत्यं प्रथितमहिमामुद्रितभुवः
   स्वसा प्रालेयांशोस्त्रिनयनशिरोधामवसतेः ।
  मुरारातेर्योषित्सरसिरुहकिञ्जल्कनिलया
   तथापि श्रीः स्त्रीत्वात्प्रकृतिचपलालिङ्गति खलान् ॥१३५॥
 चक्षुःश्रुतिवाग्धरणं लक्ष्मीः कुरुते जनस्य को दोषः ।
 गरलसहोअरजाया अच्छरियं जं न मारेइ ॥ १३६ ॥
 जुत्तं किवणेण खहुं खणिऊण लङ्घिआ लच्छी ।
 कन्हस्स वि अद्धङ्गी सा कीस परङ्गणे भमइ ॥ १३७ ॥

(इति लक्ष्म्यन्योक्तयः)
 

अथ सामान्यमेघान्योक्तयः ।

 एकस्य तस्य मन्ये धन्यामभ्युन्नतिं जलधरस्य ।
 विश्वं सशैलकाननमाननमालोकते यस्य ॥ १३८ ॥
 संप्रति न कल्पतरवो न सिद्धयो नापि देवता वरदाः ।
 जलद त्वयि विश्राम्यति सृष्टिरियं भुवनलोकस्य ॥ १३९ ॥
 क्षणदृष्टनष्टतडितो निजसंपत्तेः पयोदनिवहेन ।
 ज्ञातं साधु यदुचितं भुवनेभ्यो वितरता वारि ॥ १४० ॥
 अपगतरजोविकारा घनपटलाक्रान्ततारकालोका ।
 लम्बिपयोधरभारा प्रावृडियं वृद्धवनितेव ॥ १४१ ॥
 कृतकृत्यंमन्यः स्यादरघट्टः क्षेत्रमात्रसेकेऽपि ।
 अम्भोधरस्य तु धरां विधुरामुद्धर्तुमधिकारः ॥ १४२ ॥
 जलधर जलभरपटलैरुपहर संतोषमुद्धतं जगतः ।
 नो चेदपसर दूरं हिमकरकरदर्शनं वितर ॥ १४३ ॥
  प्रावृषेण्यस्य मालिन्यं दोषः कोऽभीष्टवर्षिणः ।
  शारदाभ्रस्य शुभ्रत्वं वद कुत्रोपयुज्यते ॥ १४४ ॥