पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

 निःशेषवाङ्मयमहोदधिपारदृश्वा
  सौभाग्यभाग्यपरभागनिवाससद्म ॥ २ ॥
 तत्पट्टदेवकुञ्चरकुम्भस्थलभूषणैकमघवानः ।
 समभूवन्क्षितितिलकाः सूरिश्रीविजयतिलकाह्वाः॥ २ ॥
 तत्पट्टाम्बरभासनभासुरतरतरुणतरणिसंकाशाः ।
 अभवञ्जगदानन्दा विजयानन्दाः परमगुरवः ॥ 9 ॥
 निखिलजिनराजभाषितप्रबचनकलधौतकषपट्टाः ।
 प्रशमसुधारससिन्धौ शारदवरविशदहिमकिरणाः ॥ ५ ॥
 श्रीमत्सुधर्मजम्बूवजाज्रादिकहीरविजयसूरीशान्‌ ।
 ये स्मारयन्ति सुतरां गुणैः स्वकीयैः क्षितिख्यातैः ॥ ६ ॥

त्रिभिर्विशेषकम्‌
 

 तेषां पट्टे संप्रति विजयन्ते विजयराजसूरीशाः ।
 प्रतिबोधितभव्यजनाः सुधामुधाकारिवरवचसः ॥ ७ ॥
 लब्ध्या श्रीगुरुगौतमगणधरतुल्यप्रधानमहिमानः ।
 धिषणानिर्जितधिषणा जनताहितकल्पतरुकल्पाः ॥ ८ ॥

युग्मम् ।
 

 तेषां सूरिवराणां राज्ये प्राज्ये च विजयिनि प्रष्ठे ।
 श्रीविजयमानसूरियुवराजविराजमानविजयगणे ॥ ९ ॥

गीतिरियम्‌ ।
 

किंच

 श्रीविजयानन्दगुरोः क्रमकजहंसेन हंसविजयेन ।
 अन्योक्तिमञ्चुमुक्तावली विदृब्धा परममोदात्‌ ॥ १० ॥
 सुललितसुवृत्तमुक्ता मुक्ताफलमालिकेव गुणयुक्ता ।
 चतुरचयचारुचञ्चच्छुचिचित्रविचित्रचित्रकरी ॥ ११ ॥

युग्मम्‌ ।
 

एषा कृता विक्रमराजराज्यात्तर्कत्रिशैलेन्दु१७३६मिते च वर्षै।
मुक्तावली बाहुलदिव्यमासि दीपालिकापर्वदिने प्रशस्ते ॥ १२॥