पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५५
अन्योक्तिमुक्तावली।

 श्रीमत्स्वकीयगुरुपादकजप्रसादा-
  न्मुक्तावली विरचिता कविकर्णदीप्रा ।
 अस्तोकलोकपरिभूषितभूमिभागे
  माणिक्यहेममणिमौक्तिकतोरणौघे ॥ १३ ॥
 चञ्चच्चिरत्नवररत्नदुवर्णरूप्य-
  वैडूर्यवज्ररुचिरे कमलानिवासे ।
 उच्चैर्मनोज्ञजिनमन्दिरराजमाने
  श्रीस्तम्भतीर्थवरमन्दिर इभ्यपूर्णे ॥ १४ ॥

युग्मम्‌ ।
 

 श्रीविजयानन्दगुरुपटरक्षोणीधरेन्द्रसिंहस्य ।
 श्रीविजयराजसूरेरादेशाद्विरचिता चेयम्‌ ॥ १५ ॥
 संविदितलक्षणादिकनिखिलग्रन्थार्थसार्थपरमार्थैः |
 श्रीदानविजयवाचकप्रष्ठैः प्रविलोकिता चैषा ॥ १६ ॥
 प्राचीनामलवृत्तमौक्तिकगणैश्चेतश्चमत्कारिभि-
  रेषानुक्रमलेखनेन मयका मुक्तावली निर्मिता ।
 स्वस्थानं विनिवेशयन्गुरुलघुस्थित्या गुणे मौक्तिका-
  न्मालाकार इति प्रसिद्धिमतुलां नाप्नोति किं मानवः ॥ १७॥
 गुरुगुरुचरणसुवाङ्मयभक्तिप्राग्भारभरितनिजमनसा ।
 प्रथमादर्शे लिखिता प्रतिरेषा धीरविजयेन ॥ १८ ॥
यत्किंचिदस्यां लिखितं विहीनं मयाहि मात्रादिभिरर्थितो वा ।
विशारदैस्तत्परिशोधनीयं ग्रन्थान्तराणि प्रविलोक्य सम्यक्‌ ॥ १९ ॥
 कियदेतिकया च मया सज्जनजनरञ्जनाय जनितेयम्‌ ।
 सा दद्यादभ्युदयं सर्वाभीष्टार्थसिद्धिं च ॥ २० ॥
 यावन्नन्दति मेरुर्यावज्जिनराजशासनं जगति ।
 तावन्नन्दतु निपुणैरनवरतं वाच्यमानासौ ॥ २१ ॥

इत्यन्योक्तियुक्तावलीग्रन्थप्रशरितः ।

समाप्ता चेयमन्योक्तियुक्तावली ।