तृषार्तैः सारङ्गैः प्रतिजलधरं भूरि विरुतं
घनैर्मुक्ता धाराः सपदि पयसस्तान्प्रति मुहुर्तं।
खगानां के मेघाः क इह विहगा वा जलमुचा-
मयाच्यो नार्तानामनुपकरणीयो न महताम् ॥ ८८ ॥
भ्रातः पञ्चरलावक मा कुरु संतोषमन्यनिधनेन ।
प्रातस्तथैव धातुर्वामत्वं किं न जानासि ॥ ८९ ॥
मलोत्सर्गं गजेन्द्रस्य मूर्ध्नि काकः करोति यत् ।
कुलानुरूपं तत्तस्य यो गजो गज एव सः ॥ ९० ॥
ग्रासाद्गलितसिक्थस्य करिणः किं गतं भवेत् ।
पिपीलिकस्तु तेनैव सकुटुम्बोऽपि जीवति ॥ ९१ ॥
बन्धनस्थो हि मातङ्गः सहस्रभरणक्षमः ।
अपि स्वच्छन्दचारी श्वा स्वोदरेणापि दुःखितः ॥ ९२ ॥
ऊर्णां नैष [१] दधाति नैष विषयो दोहस्य वाहस्य वा
तृप्तिर्नास्य महोदरस्य बहुभिर्घासैः पलालैरपि ।
हा कष्टं कथमस्य पृष्ठ[२]शिखरे गोणी समारोप्यते
को गृह्णाति कपर्दकैरलमिति ग्राम्यैर्गजो हस्यते ॥ ९३ ॥
उदस्योच्चैः पुच्छं शिरसि निहितं जीर्णकुटिलं
यदृच्छादापन्नद्विपपिशितलेशाः कवलिताः ।
गृहागर्ते शून्ये सुचिरमुषितं जम्बुक सखे
किमेतस्मिन्कुर्मो यदसि न गतः सिंहसमताम् ॥ ९४ ॥
यस्यां स केसरियुवा पदमाबबन्ध
गन्धद्विपेन्द्ररुधिरारुणिताङ्गणायाम् ।
तामद्य पर्वतदरीं धुतधूम्रलोमा
गोमायुरेष वपुषा मलिनीकरोति ॥ ९५ ॥
निष्कन्दामरविन्दिनीं स्थपुटितोद्देशां कसेरुस्थलीं
जम्बालाविलमम्बु कर्तुमितरान्सूते वराही सुतान् !
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१६०
दिखावट
पुटमेतत् सुपुष्टितम्
काव्यमाला ।