सामग्री पर जाएँ

पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

अहो नक्षत्रराजस्य साभिमानं विचेष्टितम् ।
परिक्षीणस्य वक्रत्वं संपूर्णस्य सुवृत्तता ॥ ६२ ॥
हरमुकुटे सुरतटिनीनिकटस्थितिलोभतो द्विजेन्द्रेण ।
अपि गरलं फणिफूत्कृतिरीक्षणतीक्ष्णाशुशुक्षणिः क्षान्तः ॥ ६३ ॥
शिरसा धार्यमाणोऽपि सोमः सोमेन शंभुना ।
तथापि कृशतां धत्ते कष्टं खलु पराश्रयः ॥ ६४ ॥
व्यज्यमानकलङ्कस्य वृद्धौ वृद्धौ कलानिधेः ।
आशास्महे वयं पूर्वां सर्वश्लाघ्यां कृशां दशाम् ॥ ६५ ॥
यद्यपि शिरोऽधिरोहति रौद्रः क्रोधेन सिंहिकासूनुः ।
त्यजति न शरणायातं सागरसूनुर्मृगं तदपि ॥ ६६ ॥
क्षीणः क्षीणः समीपत्वं पूर्णः पूर्णोऽतिदूरतः ।
उपैति मित्राद्यच्चन्द्रो युक्तं तन्मलिनात्मनः ॥ ६७ ॥
परविषयाक्रमणकलाकलाधरस्यैव विषयमायाति ।
रजनिपतिर्भजति दिनं दिवसपतिर्भजति नो रजनीम् ॥ ६८ ॥
विरम तिमिर साहसादमुष्माद्यदि रविरस्तमितः स्वतस्ततः किम् ।
कलयसि न पुरो महोमहोर्मिद्युतिनिधिरभ्युदयत्ययं शशाङ्कः ॥ ६९ ॥
रुचिमानुडुपरिवारवृतो यो राजेव रराज ।
एको विरुचिर्दिवसवशात्स भ्रमति द्विजराजः ॥ ७० ॥
नयनमसि जनार्दनस्य शंभोर्मुकुटमणिः सुदृशां त्वमादिदेवः ।
त्यजसि न मृगमात्रमेकमिन्दो विरमति येन कलङ्ककिंवदन्ती ॥ ७१ ॥
अये विधातस्तव कीदृशी रुचिर्यदीप्तिमन्तं कलुषीकरोषि ।
किमागतं तेन करे तवायं कृतः कलङ्काकुलितः कलावान् ॥ ७२ ॥
प्रकुर्वता संगतिमिन्दुनामुना किं किं न लब्धं परमेश्वरेण ।
कलङ्कहानिः सुरसिन्धुसंगमः कलाक्षयित्वं च पदं तथोच्चैः ॥ ७३ ||
दोषाकरोऽपि कुटिलोऽपि कलङ्कितोsपि
मित्रावसनसमये विहितोदयोऽपि ।