पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अन्योक्तिमुक्तावली ।


संप्राप्तोऽर्थो जनेभास्तदनु च निखिला येन भुक्ता दिनश्रीः
संप्रत्यस्तंगतोऽसौ हतविधिवशतः शोचनीयो न भानुः ॥ ५४ ॥
पूर्वाह्णे प्रतिबोध्य पङ्कजवनान्युत्सार्य नैशं तमः
कृत्वा चन्द्रमसं प्रकाशरहितं निस्तेजसं तेजसा ।
मध्याह्ने सरितां जलं प्रविसृतैरापीय दीप्तैः करैः
सायाह्ने रविरस्तमेति विवशः किं नाम शोच्यं भवेत्‌ ॥ ५५॥
येनोदितेन कमलानि विकासितानि
तेजांसि येन निखिलानि निराकृतानि ।
येनान्धकारनिकरप्रसरो निरुद्धः
सोऽप्यस्तमाप हतदैववशाद्दिनेशः ॥ ५६ ॥
ताटङ्कं किमु पद्यरागरचितं प्राचीकुरङ्गीदृशः
शच्याः कीडनकन्दुकः सुरसरित्प्रोत्फुल्लरक्तोत्पलम्‌ ।
रागः कोकयुगस्य किं दिनमहीपालस्य सिंहासनं
ध्वान्तानेकपकुम्भपाटनपटुः कण्ठीरवः किं रविः ॥ ५७ ॥
दक्षिणां सुतवधूं गतो रविः कालतो गतरुचिस्ततोऽभवत्‌ ।
तत्प्रमार्ष्टुमिव पातकं महन्मन्दमेति शिवसन्निधिं दिशम्‌ ॥ ५८ ॥
न्याय्यं यत्तमसः समूलहननं भास्वंस्त्वया तन्यते
नैतच्चारुतरं स्वजातिसकलज्योतींषि मुष्णासि यत्‌ ।
युक्तं वाखिललोकमस्तकपदं व्याधातुमिच्छोर्यतः
किं तेजः किमु पूर्णताक उदयः स्वल्पे परे जीवति ॥ ५९ ॥
(इति सूर्यान्योक्तयः ।)

अथ सामान्यचन्द्रान्योक्तयः ।
आलोकवन्तः सन्त्येव भूयांसो भास्करादयः ।
कलावानेव तु ग्रावद्रावकर्मणि कर्मठः ॥ ६० ॥
देवाद्यद्यपि तुल्योऽभूद्भूतेशस्य परिग्रहः ।
तथापि किं कपालानि तुलां यान्ति कलानिधेः ॥ ६१ ॥