सामग्री पर जाएँ

पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४९
अन्योक्तिमुक्तावली

 रक्षापात्रगतं स्नेहं प्रदीपश्रीविवर्धनम् ।
 भविष्यति विना तेन भस्मत्वं भवतो गुणाः ॥ ६२ ॥
 तिग्मांशोः किरणैरतीव सहितो गाढप्रतापो महा-
  नङ्गरैरपि भर्जनं च तलनं तैले कटाहस्थिते ।
 हंहो पर्पट सांप्रतं परजनस्यार्थे सहे यत्त्वया
  दंष्ट्रान्तःपतितेन गाढरटितं धिग्लज्जितास्तद्वयम्‌ ॥ ६४ ॥
 को हि तुरामधिरोहति शुचिना दुग्धेन सहजमधुरेण ।
 तप्तं विकृतं मथितं केवलमुद्गिरति यत्स्नेहम्‌ ॥ ६५ ॥
 दृढतरगलकनिबन्धः कूपनिपातोऽपि कलश ते धन्यः ।
 यज्जीवनदानैस्त्वं तर्षामर्पं नृणां हंसि ॥ ६६ ॥
 कुद्दालेन विदारणं किमपरं कष्टं स्वरारोहणं
  यत्पापिष्ठकुलालपादहननं चक्रभ्रमस्तादृशः ।
 दाघो मे दहनस्य पीड्यति तनुं सर्वं सहामो वयं
  ग्राम्यस्त्रीकरताडनं विधिपरं पर्यन्तदुःखायते ॥ ६७ ॥
 गुणयुक्तोऽप्यधो याति रिक्तकुम्भ इव स्फुटम्‌ ।
 पूर्णो गुणविदहीनोऽपि जनैः शिरसि धार्यते ॥ ६८ ॥
 सद्वृत्तोऽपि सुपूर्णोऽपि विदग्धो रागवानपि ।
 गृहीतुं शक्यते केन पार्थिवः कर्णदुर्बलः ॥ ६९ ॥
 यत्सद्गुणोऽपि सरलोऽपि तटस्थितोऽपि
  वंशोद्गतोऽपि विदधाति नृशंसकर्म ।
 वक्रात्मनो बडिश्दण्ड तदेतदस्य
  जानामि संगतिफलं तव कण्टकस्य ॥ ७० ॥
 कम्बाघातैर्वपुषि निहतैरुच्छलच्छोणितौघैः
  कारागरैर्निभिडनिगडैर्लङ्घनं चुम्बनं च ।
 एवं ज्ञत्वा विरम सुमते मा कुरु त्वं नियोगं
  कर्णोपान्ते मलिनवदना लेखिनी पूत्करोति ॥ ७१ ॥