सामग्री पर जाएँ

पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४७
अन्योक्तिमुक्तवली ।

 श्रुत्वा कुम्भसमुद्भवेन मुनिना किंचित्तदात्याहितं
  सिन्धावन्धुकुटुन्वदर्दुरकुलं हर्षादिदं ध्यायति ।
 गाम्भीर्याद्यदि तेन विभ्यति नवा त्रस्यन्ति भेकीशिशो-
  रत्रागत्य सुखं वसन्तु तिमयो जातानुकम्पा वयम्‌ ॥ ४७ ॥
 रात्रिर्गमिष्यति भविष्यति सुप्रभातं
  भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः ।
 इत्यं विचिन्तयति कोशगते द्विरेफे
  हा हन्त हन्त नलिनीं गज उज्जहार ॥ ४८ ॥
 हंसः प्रयाति शानकैर्यदि जातु तस्य
  नैसर्गिकी गतिरियं हि न तत्र चित्रम्‌ ।
 गत्या तया जिगमिपुर्बक एष मूढ-
  श्वेतो दुनोति सकलस्य जनय नूनम्‌ ॥ ४९ ॥
 कल्याणं नः किमधिकमितो जीवनार्थं पथस्त्वं
  छित्त्वा वृक्षानहह्‌ दहसि भ्रातरङ्गारकार ।
 नन्वेतस्मिन्नशनिपिशुनैरातपैराकुलाना-
  मध्वन्यानामशरणमरुप्रान्तरे कोऽभ्युपायः ॥ ५० ॥
 भ्रातर्ग्राम्यकुविन्द कन्दलयता वस्त्राण्यमूनि त्वया
  गोणीविभ्रमभाजनानि सुबहून्यात्मा किमायास्यते ।
 किंत्वेकं रुचिरं चिरादभिनवं वासस्तथा तन्यतां
  यन्नोज्झन्ति कुचस्थलं क्षणमणि क्षोणीभुजां वल्लभाः ॥ ५१ ॥
 रे लाङ्गलिक निपद्याक्रोडे लोहं पुरा यदद्राक्षीः ।
 स्पर्शविशेषात्तदखिलमजनिष्ट सुहेम नृपयोग्यम् ॥ ५२ ॥
 नौश्च दुर्जनजिह्वा च प्रतिकूलविसर्पिणी ।
 जनप्रतारणायैव दारुणैकेन निर्मिता ॥ ५३॥
 दुर्गा नदी शिथिलबन्धविसर्पिणी नौ-
  रभ्युन्नता जलमुचो विपमः समीरः ।