पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४६
काव्यमाला ।

 मुहुः कुर्वन्गीतं कुचकलशपीठोपरि लुठ-
  न्नये वीणादण्ड प्रकटय फलं कस्य तपसः ॥ ३९ ॥
 यत्पूर्वं पवनाग्निशस्त्रसलिलैश्चीर्णे तपो दुष्करं
  तस्यैतत्फकमीदृशं परिणतं यज्जातरूपं वपुः ।
 मुग्धापाण्डुकपोरनुम्बनसुखं सङ्गश्च रत्नावलेः ।
 प्राप्तं कुण्डल वाञ्छसे किमपरं यन्मूढ दोलायसे ॥ ४० ॥
 पुच्छे कः पुरुषः स मोगचतुरो दुस्तस्तपोऽङ्गीकृत-
  मुग्रं तापकृतं सकर्णचटनं नानाविधं मेनका ।
 सभ्रूरुत्तडितं सयोषिति प्रियाश्चुम्बन्ति गल्लस्थले
  कामिन्याधरपानयन्ति मनसा तेनापि डोलायते ॥ ४१ ॥ (?)
 स्पृशति शीतकरो जघनस्थलीमुचितमेव तदस्य कलङ्किनः ।
 गुणवतस्तव हार न युज्यते परकलत्रकुचद्वयपीडनम्‌ ॥ ४२॥
 पतितानां संसर्गं त्यजन्ति दूरेण निर्मला गुणिनः ।
 इति कथयन्रजनीनां हारः परिहरति कुचयुगलम्‌ ॥ ४३ ॥
 सद्वृत्त सद्गुण महर्घ महार्हकान्ते
  कान्ताघनस्तनतटोचितचारुमूर्ते ।
 आः पामरीकठिनकण्ठविलग्नभग्न
  हा हार हारितमहो भवता गुणित्वम्‌ ॥ ४४ ॥
 असद्वृत्तो नायं न च खलु गुणैरेष रहितः
  प्रिये मुक्ताहारस्तव चरणमूले निपतितः ।
 गृहाणामुं बाले तव पततु कण्ठं पुनरसा-
  वुपायो नैवान्यस्तव हृदयतापोपशमने ॥ ४५ ॥
 नैषा वेगं मृदुतरतनुस्तावकीनं विसोढुं
  शक्ता नैनां चपल नितरां खेदयेन्दीवराक्षीम्‌ ।
 रत्यभ्यासं विदधत इति प्राणनाथस्य कर्णो-
  पान्ते गत्वा निभृतनिभृतं नूपुरं शंसतीव ॥ ४६ ॥