कथयत इव नेत्रे कर्णमूलं प्रयाते
सुमुखि तव कुचाभ्यां वर्त्य पश्यावनीं[१]नीं वा ।
स्खलति यदि कथंचित्ते पदाम्भोजयुग्मं
तव तनुतरमध्यं भज्यते नौ न दोषः ॥ २० ॥
यथा यथा स्यात्स्तनयोः समुन्नतिस्तथा तथा लोचनमेति वक्रताम् ।
अहो सहन्ते बत नो परोदयं निसर्गतोन्तर्मलिना ह्यसाधवः॥२१॥
बाले तव कुचावेतौ नियतौ चक्रवर्तिनौ ।
आसमुद्रकरग्राही देवो यस्य करप्रदः ॥ २२ ॥
निगदितुं विधिनापि न शक्यते सुभटता कुचयोः कुटिलभ्रुवाम् ।
सुरतसंगतया प्रियपीडितौ बत नतिं न गतौ च्युतकञ्चुकौ ॥ २३ ॥
अणुरायरयणभरिंयं कञ्चणकलसावि तरुणिथणजुअलम् ।
ता किं मुहम्मि कालं मसि मुद्दामयणरायस्स ॥ २४ ॥
अङ्गानि मे दहतु कान्तवियोगवह्निः
संरक्ष्यतां प्रियतमो हृदयस्थितो मे ।
इत्याशया शशिमुखी गलदश्रुवारि-
धाराभिरुष्णमभिसिञ्चति हृत्प्रदेशम् ॥ २५ ॥
उपरिनाभिसरःपरिताडिता पटकुटीव मनोभवभूपतेः ।
विजयिनस्त्रिपुरारिविजी(जिगी)षया तव विराजति भामिनि कञ्चुकी ॥ २६ ॥
यदेतन्नेत्राम्भः पतदपि समासाद्य तरुणी-
कपोले व्यासङ्गं कुचकलशमस्याः कलयति ।
ततः श्रोणीबिम्बं व्यवसितविलासं तदुचितं
स्वभावस्वच्छानां विपदपि विलासं वितरति ॥ २७ ॥
धनिनि जने चटु पटुतां जल्पतु रसना रसाशने लुब्धा ।
त्वमशनपाननिरस्तमस्तकचरणे कथं लुठसि ॥ २८ ॥
एते कूर्चकचाः सकङ्कणरणत्कर्णाटसीमन्तिनी-
हस्ताकर्षणलालिताः प्रतिदिनं प्राप्ताः परामुन्नतिम् ।
- ↑ . 'पश्यावरुद्धम्' इत्युचितं प्रतिभाति.