सत्पादपान्विपुलपल्लवपुष्पपुञ्ज-
संपत्परीतवपुपः फलभारनम्रान् ।
व्योमाग्रसिञ्जितशकुन्तसमाश्रितोरु-
शाखान्मरौ मृगयते न ततोऽस्ति मुग्धः ॥ १३ ॥
गतमतिजवाद्भ्रान्तं सर्वं समुत्कपिता च भू-
श्चिरतरमहो निःश्वासान्धं सदैन्यमवस्थितम् ।
किमिव न कृतं पान्थेनेत्थं तथापि शठो महः
प्रकृतिविरसः कष्टं यातो मनागपि नार्द्रताम् । १४ ॥
किमसि विमनाः किं वोन्मादी क्षणादपि लक्ष्यसे
पुनरपि पुनः प्रेक्षापूर्वा न काश्चन ते क्रियाः ।
स्वयमजलदां जानानोऽपि प्रविश्य मरुस्थलां
शिशिरमधुरं वारि प्राप्तुं यदध्वग वाञ्छसि ॥ १५ ॥
अथ संक्तीर्णान्योक्तयः ।
दामोदरमुदराहितयभुवनं यो वहति लीलया गरुडः ।
कस्य तरोरुपरिष्टात्खिन्नोऽसौ श्रान्तिमपनयतु ॥ १६ ॥
यः पीयूषसहोदरैः स्नपयति ज्योत्स्नजलैः सर्वतो
यश्च त्वामधिकाधिकं ज्वलयति प्रोद्दामतापैः करैः ।
भ्रातर्व्योम तयोरपि स्थितिमिह व्यातन्वतो विक्रिया-
निर्मुक्तस्य महत्त्वमेतदसमं दूरेऽधिरूढं तव ॥ १७ ॥
जम्भारिरेव जानाति रम्भासंभोगविभ्रमम् ।
घटचेटीविटः किंस्विज्जानात्यमरकामिनीम् ॥ १८ ॥
किं व्यक्तीकुरुषे सरोजमुकुलाकारामुरोजश्रियं
नीतेनाधरपल्लवे कुसुमतां किंच स्मितेनामुना ।
आकूतामृतशीतलाः श्रमयसे किंवा गिरो नागरी-
र्मुग्धे मानिनि किं मुधा घटयसि क्लीबे कटाक्षच्छटाः॥१९॥