सामग्री पर जाएँ

पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

 नमाम्यहं महावीरं दयावन्तं जिनेश्वरम्‌ ।
 सूरवत्तेजसां पूरं रिक्तं पापैः शिवंकरम्‌ ॥ ४ ॥
 सेवितं साधुनिःस्फारं वर्यातिशयभासुरम्‌ ।
 कल्याणाचलवद्धीरं हंसगत्या मनोहरम्‌ ॥ ५ ॥
 सर्वधर्मोपदेष्टारं विशिष्टज्ञानमन्दिरम्‌
 जराभीरुविजेतारं यत्याचारैकतत्परम्‌ ॥ ६ ॥

(चतुर्भिः कलापकम्‌ ।)
 

स्वगुरुनामगर्भितं कर्तृनामगर्भितं च षोडशदलकमलबन्धचित्रम्‌ ।

 श्रीगौतमगणाधीशसमानमहिमालयम्‌ ।
 विजयानन्दसूरीन्द्रं शंकरं समुपास्महे ॥ ७ ॥

अथ प्रतिद्धारवृत्तानि ।

 अथाष्टमपरिच्छेदे प्रतिद्वारस्य पाटिकाम्‌ ।
 प्राज्ञप्रीतिप्रदे(दां) []वच्मि हृद्यपद्यपदैः स्फुटम्‌ ॥ ८ ॥
 तत्रान्योक्तिषु विज्ञेया बुद्धिबोधविवृद्धये ।
 मरुस्थलीभवान्योक्तिः संकीर्णान्योक्तयः पुनः ॥ ९ ॥

अथ मरुस्थलान्योक्तयः ।

  मरौ नास्त्यैव सलिलं कृच्छ्राद्यद्यपि लभ्यते ।
  तत्कटु स्तोकमुष्णं च न करोति वितृष्णताम्‌ ॥ १० ॥
 पायं पायं पिब पिब पयः सिञ्च सिञ्चाङ्गमङ्गं
  भूयो भूयः कुरु कुरु सखे मज्जनानि(?)नितान्तम्‌ ।
 एषा शेषश्रमशमपटुर्दुःखिताध्वन्यबन्धुः
  सिन्धुर्दूरीभवति भवतो मारवः पान्थ पन्थाः । ११ ॥
 भो भो किमकाण्ड एव पतितस्त्वं पान्थ कान्या गति-
  स्तत्तादृक् तृषितस्य ते खलमतिः सोऽयं जलं गूहते ।
 आस्थानोपगतामकालसुलभां तृष्णां प्रतिक्रुध्महे(?)
  त्रैलोक्यप्रथितप्रभावमहिमा मार्गे ह्यसौ मारवः ॥ १२॥


  1. वचिधातुना वर्तमानाविभक्तेरुत्तमपुरुषैकवचनारूढेनाहमिति कर्तृपदं सूचितम्‌.