पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४१
अन्योक्तिमुक्तावली ।

 एके केचित्सुगुणग्रथिता दुस्तरं तारयन्ति
  केषामन्ये ज्वलितहृदया रक्तमन्ये पिबन्ति ॥ २५३ ॥
 सर्वास्तुम्ब्यः समकटुरसास्तुम्बिवल्लिप्रसूता-
  स्तासां बद्धा अपि कतिपया दुस्तरं तारयन्ति ।
 शब्दायन्ते सरसमपराः शुष्ककाष्ठे निषण्णा-
  स्तन्मध्येऽन्या ज्वलितहृदयाः शोणितं संपिबन्ति ॥ २५४ ॥
 पिच्छसहीतुम्बणिया भूयंमुत्तूण निम्बमारुहिया ।
 एयाए न हुहुत्तं सरिसा सरिसेहिं रच्चन्ति ॥ २५५ ॥

इति तुम्ब्यन्योक्तयः।
 

अथ कारेल्याः ।

 रे कारेल्लि हयासे चडिया निम्बम्मि पायवे पउरे ।
 अहवा तज्झ न दोसो सरिसा सरिसेहिं रच्चन्ति ॥ २५६ ॥

अथ कोहलिन्याः ।

 पत्तावरिओ बहुसहसाहिओ पिच्छिऊण मारुहसु ।
 कोहलिणि किं न याणसि परण्डो तुह भरं सहइ ॥ २५७ ॥

इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टा रकवृन्दवृन्दारकवृन्दारकराजपरमगुरुभट्टारकश्री १९ श्रीविजयानन्दसूरिरिष्यभुजिष्यपण्डितहंसविजयगणिसमुच्चितायामन्योक्तिमुक्तावल्यां वनस्पतिकायिकान्योक्तिनिरूपकः सप्तमः परिच्छेदः ॥


अष्टमः परिच्छेदः ।

 जय श्रीसौख्यसंतानसर्वसम्पत्तिदायिने ।
 नमोऽस्तु भुजगाधीशध्वजाय परमेष्ठिने ॥ १ ॥
 विदिताखिलसद्वस्तुसारसंसारतारक ।
 करुणाकर मां पार्श्च सोम्यदृष्ट्या विलोकय ॥ २ ॥
 श्रीसंयुक्तं गुणागारं विश्वव्यापियशोभरम्‌ ।
 जनानां जयदातारं [१]याकरं व्रतिनां वरम्‌ ॥ ३ ॥


  1. यां लक्ष्मीं करोतीति तम्‌.