अथ विजयायाः ।
विजया गुणाणमूलं तरुअरमब्भम्मि उब्भओ हत्थो ।
अत्थय कोइ समत्थो मुं सत्थिं पल्लए बत्थो ॥ २३४ ॥
अथ तमाकोः ।
भ्रातः कस्त्वं तमाकू सुहृदिह गमनं ते कुतोऽम्भोधिपारा-
त्कस्य त्वं दण्डधारी न हि तव विदितं श्रीकलेरेव राज्ञः ।
चातुर्वर्ण्यं विधिविरचितं भिन्नभिन्नैकभूत-
मेकीकर्तुं जगति सकले शासनादागतोऽस्मि ॥ २३५ ॥
अथ लशुनस्य ।
कर्पूरधूलीरचितालवाल: कस्तूरिकाचर्चितदोहदश्रीः ।
क(का)श्मीरनीरैरभिषिच्यमानः प्राच्यं गुणं मुञ्चति किं पलाण्डुः ॥२३६॥
अथ कर्पासान्योक्तयः ।
नीरसान्यपि रोचन्ते कर्पासस्य फलानि नः ।
येषां गुणमयं जन्म परेषां गुह्यगुप्तये ॥ २३७ ॥
श्लाघ्यं कर्पासफलं यस्य गुणै रन्ध्रपिहितानि ।
मुक्ताफलानि तरुणीकुचकलशे सुष्ठु विलसन्ति ॥ २३८ ॥
निष्पेषोत्थमहाव्यथा परतरं प्राप्तं तुलारोहणं
ग्राम्यस्त्रीनखलुञ्चनव्यतिकरस्तन्त्रीप्रहारव्यथा ।
मातङ्गोज्झिततुण्डवारिकणिकापानं च कूर्चाहतिः
कर्पासेन परार्थसाधनविधौ किं किं न चाङ्गीकृतम् ॥ २३९ ॥
अथारिष्टस्य ।
निक्षे(क्षि)प्योष्णजले त्वचं तव परित्वक्षन्ति ये निष्कृपा-
स्तेषामप्युपकुर्वतांशुकमलप्रक्षालनादुच्चकैः ।
उत्कीर्णैरपि तन्तुभिर्निगदि(लि)तैरप्यस्थिभिः प्राणिनां
चक्षुर्दोषहृता सतां धुरि धृतारिष्ट त्वयैव स्थितिः ॥ २४० ॥