पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२९
अन्योक्तिमुक्तावली ।

अथ भूर्जस्य ।

 दौर्जन्यमात्मनि परं प्रथितं विधात्रा
  भूर्जद्रुमस्य विफलत्वसमर्पणेन ।
 किं वर्मभिर्निशितशस्त्रशतावकृत्तै-
  राशां न पूरयति सोऽर्थिपरम्पराणाम्‌ ॥ १६८ ॥
 कुर्वन्तु नाम जनतोपकृतिं प्रसून-
  च्छायाफलैरविकलैः सुलभैर्द्रुमास्ते ।
 सोढास्तु कर्तनरुजः पररक्षणार्थ-
  मेकेन भूर्जतरुणा करुणापरेण ॥ १६९ ॥

अथाश्वत्थस्य ।

 वर्धितैः सेवितैः किं तैः सत्यश्वत्थेऽन्यपादपैः।
 वर्धितो नरकाद्रक्षेत्स्पृष्टोऽनिष्टानि हन्ति यः ॥ १७० ॥

अथ न्यग्रोधान्योक्तयः ।

 विस्तीर्णो दीर्घशाखश्रितशकुनिशतः शाखिनामग्रणीस्त्वं
  न्यग्रोध क्रोधमन्तः प्रकटयसि न चेद्वच्मि किंचित्तदल्पम्‌ ।
 जल्पोऽप्येष त्रपाकृत्पलघुपरिकरा क्वापि कूष्माण्डवल्ली
  पल्लीपृष्ठप्रतिष्ठा हसति निजफलैस्त्वत्फलर्द्धिं किमन्यत्‌ ॥ १७१ ॥
 न्यग्रोधे फलशालिनि स्फुटरसं किंचित्फलं पच्यते
  बीजान्यङ्कुरगोचराणि कतिचिस्सिद्ध्यन्ति तस्मिन्नपि ।
 एकस्तेष्वपि कश्चदङ्कुरवरो बध्नाति तामुन्नतिं
 [१]यामध्यास्य जनः स्वमातरमिव क्लान्तिच्छिदे धावति ॥ १७२॥
  रुद्ध्वा स्वपल्लवैर्व्योम मूलैस्तु वडवामुखम्‌ ।
  रे न्यग्रोध फलं हीनं ददानः किं न लज्जसे ॥ १५७३ ॥
  महातरुर्वा भवति समूले वा विनश्यति ।
  नान्तरप्रत्ययानेति न्यग्रोधकणिकाङ्कुरः ॥ १७४ ॥


  1. यामध्वन्यजनः-इत्यपि वा पाठः,