एतासु केतकिलतासु विकासिनीषु
सौभाग्यमद्भुततरं भवती बिभर्ती।
यत्कण्टकैर्व्यथितमात्मवपुर्न जानं-
स्त्वामेव सेवितुमुपक्रमते द्विरेफः ॥ १५४
धन्यासि केतकिरलते तव किंचिदूनं
नूनं न चास्ति कनकाम्बुजगर्भगौरि ।
यत्सेवितानि शुभसौरभलोभलुब्धै-
र्मत्तालिभिर्विगणितोत्कटकण्टकैस्त्वम् ॥ १५५ ॥
उत्कटकण्टककोटीघर्षणघृष्टानि हृदि न चिन्तयति ।
असदृशरसविवशमतिर्विशत्यलिः केतकीकुसुमम् ॥ १५६ ॥
अथ पनसस्य ।
गरीयान्सौरभ्ये रसपरिचयेनार्चति सुधा
मुधा मृद्वीकापि प्रथिमनि निमग्न फलभरः ।
परार्थे कोशश्रीरिति पुलकितः कण्टकमिषा-
दहो ते चारित्रं पनस मनसः कस्य न मुदे ॥ १५७ ॥
अथ कदल्याः ।
लाटीतरोरमुपकारि फलं विदित्वा
लज्जावशादुचित एव विनाशयोगः ।
एतत्तु चित्रमुपकृत्य फलैः परेभ्यः
प्राणान्निजाञ्झटिति यत्कदली जहाति ॥ १५८ ॥
लहुओविहु सेविज्जइ जो गुरुपत्तेर्हि होइ परिवरिओ ।
पत्तविसेसे कदली अमियसमाणं फलं देइ ॥ १५९ ॥
अथ द्राक्षायाः ।
यद्यपि न भवति हानिः परकीयां चरति रासभे द्राक्षाम् ।
असमञ्जसं तु दृष्ट्वा तथापि परिदह्यते चेतः ॥ १६० ॥