पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला

 म्रदीयस्त्वाधिक्यान्न भवति विमर्दे क्षममिदं
 नचान्येभ्यो रूपे भवति कुसुमेभ्योऽधिकतरम्‌ ।
 प्रसूनं मालत्यास्तदपि हृदयाह्लादकरण-
 प्रवीणैरामोदैर्भवति जगतां मौलिनिलयम्‌ ॥ १४६ ॥
मा मालति म्लायसि यद्यवद्यतुम्बीपप्रसूने भ्रमरं समीक्ष्य ।
प्राणी चतुर्भिश्चरणैः पशुश्चेत्स षट्पदः सार्धपशुः कथं न ॥१४७॥
 भवति हृदयहारी कोऽपि कस्यापि हेतु-
  र्न खलु गुणविशेषः प्रेमबन्धः प्रयोगे ।
 किसलयितवनान्ते कोकिलालापरम्ये
 विकसति न वसन्ते मालती कोऽत्र हेतुः ॥ १४८ ॥
 कुसुमस्तवकैर्नम्राः सन्त्येव परितो रताः ।
 तथापि भ्रमरभ्रान्तिं हरत्येकैव मालती ॥ १४९ ॥

`

इति मालत्यन्योक्तयः ।
 

अथ वालकस्य

मुत्तूण पत्तनियरं जडाण निय परिमलं समप्पन्तो ।
सहसुम्मूलणटुक्खं वालय बालोऽसि किं भणिमो ॥ १५० ॥

अथ केतक्यन्योक्तयः ।

 केतकीकुसुमं भृङ्गः खण्ड्यमानोऽपि सेवते ।
 दोषाः किंनाम कुर्वन्ति गुणापहृतचेतसाम्‌ ॥ १५१ ॥
रोलम्बस्य चिराय केतकपरिष्वङ्गेष्वभङ्गो रसः
 सुज्ञातं बत केतकस्य च मनो भृङ्गप्रसङ्गोत्सुकम्‌ ।
जानात्येव मिथोऽनुरागमनयोः सर्वोऽपि नेसर्गिकं
 प्रत्यूहाय दलेषु धिक्समभवन्मर्माविधः कण्टकाः ॥ १५२ ॥
 पत्राणि कण्टकशतैः परिवेष्टितानि
  वार्तापि नास्ति मधुनो रजसोऽन्धकारः।
 आमोदमात्ररसिकेन मधुव्रतेन
  नालोकितानि तव केतकि दूषणामि ॥ १५३ ॥