यैरेव शुद्धसलिलैः परिपालितस्त्वं
तेभ्यः पृथग्भवसि पङ्कभवोऽसि यस्मात् ॥ १३८ ॥
रे पद्मिनी जलरुहस्तव युक्तमेत-
त्सङ्गं करोषि मलिनैर्मधुपैः समं यत् ।
प्रायो विशुद्धकुलजा अपि लब्धवर्णा
नार्यो भवन्ति खलु नीचजनानुरक्ताः ॥ १३९ ॥
ख्याता वयं समधुपा मधुकोशवत्य-
श्चन्द्रः प्रसारितकरो द्विजराज एषः ।
अस्मत्समागमकृतेऽस्य पुनर्द्वितीयो
माभूत्कलङ्क इति संकुचिता नलिन्यः ॥ १४० ॥
रे भ्रमर भ्रमरहितं कथय कथं यासि कुमुदिनीमेनाम् ।
उदितेऽपि जगच्चक्षुषि पश्यैषा स्मितमुखी नासीत् ॥ १४१ ॥
रवेरस्तं तेजः समुदयति खद्योतपटली
मरालाली मूका कलकलमुल्का विदधते ।
इदं दृष्टं कष्टं चिरमसहमाना कमलिनी
मिलद्भृङ्गव्याजात्कवलयति हालाहलमिव॥ १४२ ॥
अस्तं गते दिवानाथे नलिनी मधुपच्छलात् ।
गिलन्ति स्वविनाशाय गुटिकां कालकूटजाम् ॥ १४२ ॥
अस्तं गतवति सवितरि भर्तरि मधुपं निवेश्य कोशान्ते ।
कमलिन्योऽपि रमन्ते किमत्र चित्रं मृगाक्षीणाम् ॥ १४४ ॥
अथ मालत्यन्योक्तयः ।
किं मालतीकुुसुम ताम्यसि निष्ठुरेण
केनापि यत्किल विलूनमितो लताग्रात् ।
लोकोत्तरेण विलसद्गुणगौरवेण
को नामुना शिरसि नाम करिष्यति त्वाम् ॥ १४५ ॥