सामग्री पर जाएँ

पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११०
अन्योक्तिमुक्तावली ।

 
समयवशेन यदद्य फलं जातं तव सहकार ।
भ्रातस्तद्भवतार्तजने कर्तव्यो न नकारः ॥ ९२ ॥
 सौरभ्यगर्भमकरन्दकरम्बितानि
  पङ्केरुहाण्यपि विहाय समागतस्त्वाम् ।
 संसारसार सहकार तथा विधेयं
  येनोपहासविषयो न भवेद्द्विरेफः ॥ ९३ ॥
 उत्फुल्लरम्य सहकार रसालबन्धो
  कूजत्पिकावलिनिवास तथा विधेहि ।
 गुञ्जद्भ्रमद्भ्रमरकस्त्वयि बद्धतृष्णो
  नान्यान्प्रयाति पिचुमन्दकरीरवृक्षान् ॥ ९४ ॥
 येऽमी ते मुकुलोद्गमादेनुदिनं त्वामाश्रिताः षट्पदा-
  स्ते भ्राम्यन्ति फलाद्वहिर्बहिरहो दृष्ट्वा न संभाषते ।
 ये कीटास्तव दृक्पथं न च गतास्त्वेतत्फलाभ्यन्तरे
  धिक्त्वां चूततरो परापरपरिज्ञानानभिज्ञो भवान् ॥ ९५ ॥
 न तादृक्कर्बूरे न च मलयजे नो मृगमदे
  फले वा पुष्पे वा तव भवति यादृक्परिमलः ।
 परं त्वेको दोषस्त्वयि खलु रसालेऽधिकगुणे
  पिके वा काके वा गुरुलघुविशेषं न मनुषे ॥ ९६ ॥
 यदपि किल वसन्ते वीरुधः शाखिनो वा
  फलकुसुमसमृद्ध्या शोभमाना भवन्ति ।
 तदपि युवजनानां प्रीतये कोकिलोऽसा-
  वभिनवकलिकालीभारशाली रसालः ॥ ९७ ॥
 उत्तंसकौतुकरसेन विलासिनीनां
  लूनानि यस्य नखरैरपि पल्लवानि ।
 उद्यानमण्डनतरो सहकार स त्व-
  मङ्गारकारकरगोचरतां गतोऽसि ॥ ९८ ॥