अन्तःप्रतप्तमरुसैकतदह्यमान-
मूलस्य चम्पकतरोः क्व विकाशचिन्ता ।
प्रायो भवत्यनुचितस्थितदेशभाजां
श्रेयः स्वजीवपरिपालनमात्रमेव ॥ ८४ ॥
केनापि चम्पकतरो बत रोपितोऽसि
कुग्रामपामरजनान्तिकवाटिकायाम् ।
यत्र प्ररूढनवशाखविवृद्धिलोभा-
द्गोभग्नवाटघटनोचितपल्लवोऽसि ॥ ८५ ॥
उद्यानपाल कलशाम्बुनिषेचनाना-
मेतस्य चम्पकतरोरयमेव कालः ।
तस्मिंश्च[१] घर्मनिहतेऽपि घनाम्बुनाथ
संवर्धितेऽप्युभयथा न तवोपयोगः ॥ ८६ ॥
एणाद्याः पशवः किरातपरिषन्नैषा गुणग्राहिणी
संचारोऽस्ति न नागरस्य विषयोच्छिन्नं मुनीनां मनः ।
धूमेनातिसुगन्धिनात्र विटपे दिक्चक्रमामोदय-
न्नामूलं परिदह्यते गुरुतरः कस्मै किमाचक्ष्महे ॥ ८७ ॥
अथ सहकारान्योक्तयः ।
गाता कोकिल एव ज्ञाता पुनरेव सहकारः ।
यः पञ्चममुपगायति यस्यास्थिषु विपुलपुलकमुकुलानि ॥ ८८ ॥
यद्यपि दिशि दिशि तरवः परिमलमत्तालिपालिवाचालाः ।
तदपि स एव रसालः कोकिलहृदये सदा वसति ॥ ८९ ॥
मञ्जरिभिः पिकनिकरं रजोभिरलिनः फलैश्च पान्थजनम् ।
मार्गसहकार नितरामुपकुर्वन्नन्द चिरकालम् ॥ ९० ॥
मधुसमयादतिपल्लवितः कस्तरुरिह न विशालः ।
यं रमयति कलकण्ठगणः स पुनर्जयति रसालः ॥ ९१ ॥
- ↑ १. ‘अस्मिन्निदाघनिहते घनवारिणा वा संवर्धिते तव वृथोभयथोपयोगः' इत्यपि पाठः.