पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११७
अन्योक्तिमुक्तावली

 श्रीमच्चन्दनवृक्ष सन्ति बहवस्ते शाखिनः कानने
  येषां गन्धगुणः सदापि वसति प्रायेण पुष्पश्रिया ।
 प्रत्यङ्गं सुकृतेन तेन शुचिना ख्यातावदातात्मना
  योऽयं गन्धगुणस्त्वया प्रकटितः क्वासाविह प्राप्यते ॥ ७६ ॥
मलओस चन्दणुचिय नइ मुह हीरन्त चन्दणदुमोहो ।
पव्भट्टं पिहु मलयाउ चन्दणं जायइ महग्धम् ॥ ७७ ॥

(इति चन्दनवृक्षान्योक्तयः ।)
 

अथ चम्पकान्योक्तयः ।


साधारणतरुबुद्ध्या न मया रचितस्तवालवालोऽपि ।
लज्जयसि मामिदानीं चम्पक भुवनाधिवासिभिः कुसुमैः ॥ ७८ ॥
कोपं चम्पक मुञ्च याचकजनैरायाचितस्त्वं सखे
  माम्लासीः परितो विलोकय तरून्कस्तेऽधिरूढस्तुलाम् ।
 कोपश्चेन्निहितस्तवास्ति हृदये धात्रे तदा कुप्यता-
  मित्थं येन सुवर्णवर्णकुसुमामोदाद्वितीयः कृतः ॥ ७९ ॥
 सौभाग्यं कुसुमावलीषु विपुलं सौन्दर्यमर्यादया
  पुष्पं चम्पक निर्मितं च विधिना स्वर्णातिवर्णाकृति ।
 गन्धोऽप्येणमदाभिमानविजयी काठिन्यमन्तर्गतं
  ज्ञात्वा दोषपराङ्मुखो मधुकरः सङ्गं न धत्ते त्वया ॥ ८० ॥
रूपसौरभसमृद्धिसमेतं चम्पकं प्रति ययुर्न मिलिन्दाः ।
कामिनस्तु जगृहुस्तदशेषं ग्राहका हि गुणिनां कति न स्युः ॥८१॥
 यन्नादृतस्त्वमलिना मलिनाशयेन
  किं तेन चम्पक विषादमुरीकरोषि ।
 विश्वाभिरामनवनीरदनीलवेषाः
  केशाः कुशेशयदृशां कुशलीभवन्तु ॥ ८२ ॥
सुवर्णवर्णेन वृणीष्व गौरवं सौरभ्यभारेण जगद्वशीकुरु ।
इति क्षतिर्गन्धफलि स्फुटं तव प्राप्ता न यस्मान्मधुपेन संगतिः ॥ ८३ ॥