पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

 कति पल्लविता न पुष्पिता वा
  तरवः सन्ति न संततं वसन्ते
 जगतीविजयाय पुष्पकेतोः
  सहकारी सहकार एक एव ॥ ९९ ॥
यो दृष्टः स्फुटदस्थिसंपुटवशान्निर्यत्प्रवालाङ्कुरो
 दैवात्स द्विदलादिकक्रमवशादारूढशाखाशतः ।
स्निग्धं पल्लवितो घनं मुकुलितः स्फारच्छटं पुष्पितः
 सोत्कर्ष फलितो भृशं च नमितः कोऽप्येष चूतद्रुमः ॥१०० ॥
एतस्मिन्वनमार्गभूपरिसरे सौन्दर्यमुद्राङ्कितः
 प्रोद्यद्भिः फलपत्रपुष्पनिचयैश्चूतः स एकः परम् ।
यं वीक्ष्य स्मितवक्रमुद्गतमहासंतोषमुल्लासित-
 स्फारोत्कण्ठमकुण्ठितक्रमममी धावन्ति पान्थवजाः ॥ १०१ ॥
सा तादृक्षनृभक्षलक्षविषमा लङ्का न टङ्कादपि
 ग्राह्यः काञ्चनभूभृदप्सु दधिरे रत्नानि रत्नाकराः ।
हा दैवेति वचो विना न ददते वज्राणि वज्राकरा-
 स्तेनाहं सहकार सारफलदं त्वामर्थितुं संगतः ॥ १०२ ॥
 छाया फलानि मुकुलानि च यस्य विश्व-
  माह्लादयन्ति सहकारमहीरुहस्य ।
 आमृष्य तस्य शिखया नवपल्लवानि
  मथ्नासि रे दवहुताश हताश कष्टम् ॥ १०३ ॥
कूष्माण्डीफलवत्फलं न यदपि न्यग्रोधवन्नोच्चता
 रम्भापत्रनिभं दलं न कुसुमं नो केतकीपुष्पवत् ।
सौरभ्यं कुसुमे दले तदपि तत्किंचित्समुज्जृम्भते
 लोके येन रसालसालनिकरांस्त्यक्त्वा गुणान्स्तौमि ते ॥ १०४ ॥
 यावत्फलोदयमुखः सहकार जात-
  स्तावच्च कण्टककुलैः परिवेष्टितोऽसि ।