पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११५
अन्योक्तिमुक्तावली ।

 मृदूनां स्वादूनां लघुरपि फलानां न विभव-
  स्तवाशोक स्तोकः स्तवकमहिमा सोऽप्यसुरभिः ।
 यदेतन्नो तन्वीकरचरणलावण्यसुभगं
  प्रवालं बालं स्यात्तरुषु स कलङ्कः किमपरः ॥ ६२ ॥

(इति किङ्केल्लिपादपान्योक्तयः ।)
 

अथ चन्दनान्योक्तयः ।


 सन्त्येव मिलिताकाशा महीयांसो महीरुहः ।
 तथापि जगतश्चित्तनन्दनश्चन्दनद्रुमः ॥ ६३ ॥
 के के तमालफलसालरसालसाल-
  हिन्तालतालकृतमालगणा न सन्ति ।
 एकेन तेन वनमण्डनचन्दनेन
  संवासितं वनमिदं मलयाचलस्य ॥ ६४ ॥
 कान्ताकेलिं कलयतु तरुः कोऽपि कश्चित्प्रभूणा-
  मत्यानन्दं जनयतु फलैः कोऽपि लोकांश्चिनोतु ।
 धन्यं मन्ये मलयजमहो यः प्रभूतोपतापं
  संसारस्य द्रुतमपनयत्यात्मदेहव्ययेन ॥ ६५ ॥
 अन्तः केचन केचनापि हि दले केचित्तथा पल्लवे
  मूले केचन केचन त्वचि फले पुष्पे च केऽपि द्रुमाः ।
 सौरभ्यं नितरां बिभर्त्यविकलः श्रीखण्डषण्डीकृतः
  सर्वाङ्गे सुरभिर्न कोऽपि ददृशे मुक्त्वा भवन्तं क्वचित् ॥६६॥
 केचिल्लोचनहारिणः कतिपये सौरभ्यसंभारिणः
  केऽप्यन्ये फलहारिणः प्रतिदिशं ते सन्तु हन्त द्रुमाः ।
 धन्योऽयं हरिचन्दनः परिसरे यस्य स्थितैः शाखिभिः
  शाखोटादिभिरप्यहो मृगदृशामङ्गेषु लीलायितम् ॥ ६७ ॥
 भ्रातश्चन्दन किं ब्रवीमि विकटस्फूर्जत्फणाभीषणा
  गन्धस्यापि महाविषाः फणभृतो गुप्त्यै यदेते कृताः ।