पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११४
काव्यमाला ।

 वृद्धिर्यस्य तरोर्मनोरथशतैराशावता प्रार्थिता
  जातोऽसौ सरसः प्रकामफलदः सर्वाश्रितोपाश्रयः ।
 नानादेशसमागतैश्च पथिकैराक्रान्तमन्यैः खगै-
  स्तं लब्धावसरोऽपि वृक्ष शकुनैर्दूरे स्थितो वीक्ष्यते ॥ ५५ ॥
 केचित्कण्टकिनः कटुत्वकलिताः केचिद्द्विजिह्वाश्रयाः
  स्तब्धाः केचन केऽपि सत्तमदलाः केचित्सदा निष्फलाः ।
 अत्यन्तं फलिनोऽपि नीरसफला वृक्षा इव स्वामिनो
  जाताः संप्रति कुत्र यान्तु पथिकाश्छायाफलाकाङ्क्षिणः ॥५६॥
 संकेतं मधुपावलीविरचितैर्झाङ्कारसारारवैः
  शस्यं लास्यविधिं समीरलहरीप्रेङ्खोलितैः पल्लवैः ।
 वादित्रं खलु कोकिलाकलरुतैः संपादयन्सेवकी-
  भूयोसावृतुराजमागतमहो किं सेवते दुष्कृती ॥ ५७ ॥
 माकुप्पमग्गपायव मग्गच्छालूरणेण अणवरयम् ।
 उमगत्थे फलिए(?) मग्गत्थानेव गिह्णन्ति ॥ ५८ ॥
 पइमुक्काह विवरतरु फिट्टइ पत्तत्तणं न पत्ताहम् ।
 तुह पुण च्छाया जइ होइ तारिसी तेहिं पत्तेहिम् ॥ ५९ ॥

(इति सामान्यवृक्षान्योक्तयः ।)
 

अथ वृक्षविशेषणपद्धतौ किङ्केल्लिभूमीरुहान्योक्तयः ।


 किं ते नम्रतया किमुन्नततया किं वा घनच्छायया
  किं वा पल्लवलीलया किमनया चाशोक पुष्पश्रिया ।
 यत्त्वन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन्नन्वहं
  न स्वादूनि मृदूनि खादति फलान्याकण्ठमुत्कण्ठितः ॥६०॥
 रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै-
  स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि ।
 कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः
  सर्वं तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥ ६१ ॥