पृष्ठम्:अन्योक्तिमुक्तावली.djvu/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०८
काव्यमाला ।

सप्तमः परिच्छेदः ।

 परज्योतिःस्वरूपाय पराय परमात्मने ।
 नमः श्रीपार्श्वनाथाय श्रेयःश्रेणीविधायिने ॥ १ ॥
 कारुण्यपुण्यसत्सद्म कुरु त्वं जनबान्धव ।
 मम श्रीपार्श्वतीर्थेश सुप्रसादं सुखास्पदम् ॥ २ ॥
 भजध्वमेनं भो भव्याः श्रीकामाय जिनेश्वरम् ।
 रम्यदं तं सुखागारं मनोभवभवप्रभम् ॥ ३ ॥
 भववारांनिधौ कुम्भभवं बोधितसत्सभम् ।
 भगवन्तं जराजन्मरोगहं चित्तजं हरम् ॥ ४ ॥

द्वाभ्यां खड्गबन्धचित्रम् ।


 श्रमणप्रकरैर्वन्द्य सद्यस्तव पदौ मम ।
 महानन्दपदं दत्तां त्रैशलेययशोधर ॥ ५ ॥

हलबन्धचित्रम् ।


 धन्यास्त एव देवार्थं ये त्रिसंध्यं पदद्वयम् ।
 आराधयन्ति विधिवज्जन्मभाजोऽनिशं तव ॥ ६॥
 सज्ज्ञानमञ्जुमाणिक्यवररोहणभूधरम् ।
 वन्दामहे विश्ववन्द्यं साधुश्रीवन्तनन्दनम् ॥ ७ ॥

अथ प्रतिद्वारवृत्तानि ।


 सांप्रतं सुखबोधाय परिच्छेदे च सप्तमे ।
 चित्रानुप्रासयमकगुणालंकारभासुरे ॥ ८ ॥
 विचक्षणजनश्रेणीहर्षोत्कर्षकृते मया ।
 सरलानुक्रमणिका प्रतिद्वारस्य प्रोच्यते ॥ ९ ॥(युग्मम्)
 सामान्यपादपान्योक्तिरशोकतरुपद्धतिः ।
 चन्दनोक्तिश्चम्पकोक्तिर्माकन्दोक्तिर्मनोरमा ॥ १० ॥
 काकतुण्डोक्तिरपरा मल्लिकोक्तिरनोपमा(?)।
 पाटलोक्तिश्च पद्मोक्तिः पद्मिन्युक्तिः स्फुटाः स्मृताः ॥ ११ ॥