उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षे सखे
तुङ्गानामुपरि स्थितिं क्षितिभृतां कुर्वन्त्यमी पांशवः ॥ ११३ ॥
परमो मरुत्सखाग्नेस्तेजोवृद्धिं तनोति तज्जातु ।
दीपं हरति तदस्य ज्ञातं प्रतिपन्ननिर्वहणम् ॥ ११४ ॥
प्राणास्त्वमेव जगतः पवनस्त्वमेव
विश्वं पुनासि परितो परितो विहृत्य ।
एकं पुनः सकलभूषण दूषणं ते
वह्नेः सखा भवसि यद्भवनं दिधक्षोः ॥ ११५ ॥
शाखाभिर्हरिता दिशः कलयिता श्रीसंविभागोत्सवं
तारोल्लम्बकुटुम्बके प्रथयिता पान्थातिथेयीमसौ ।
इत्थं नाथमनोरथप्रथिमभिः सार्धं प्रवृद्धे पुरा
हा दुर्वात किमाततान तदिदं बाले रसाले भवान् ॥ ११६ ॥
कोऽयं भ्रान्तिप्रकारस्तव पवनपदं लोकपादाहतीनां
तेजस्विव्रातसेव्ये नभसि नयसि यत्पांशुपूरं प्रतिष्ठाम् ।
अस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां
केनोपायेन सह्यो वपुषि कलुषतादोषपोषस्तवेह ॥ ११७ ॥
हंहो दग्धसमीर सर्पति भवत्यस्मिन्वने शाखिनां
शाखाघर्षणजः स कोऽपि सुचिरं जज्वाल दावानलः ।
येनादायि पलायमानहरिणं भस्मीभवद्भूरुहं
शुष्यन्निर्झरमुत्पतत्खगकुलं वेल्लद्भुजङ्गं वनम् ॥ ११८ ॥
अहह चण्डसमीरण दारुणं किमिदमाचरितं चरितं त्वया ।
यदिह चातकचञ्चुपुटोदरे पतति वारि तदेव निवारितम् ॥ ११९॥
इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारकवृन्दारकराजपरमगुरुभट्टारकश्री १९श्रीविजयानन्दसूरिशिष्यभुजिष्यपण्डित- हंसविजयगणिसमुच्चित्तायामन्योक्तिमुक्तावल्यां जलाग्निसमीरा- न्योक्तिनिरूपकः षष्टः परिच्छेदः ॥ ६ ॥