अथ कूपान्योक्तयः ।
अमुद्रोऽपि वरं कूपः समुद्रेणापि तेन किम् ।
सुस्वादु सलिलं यत्र पीयते पथिकैः पथि ॥ ९० ॥
कूपप्रभवानां परमुचितमपां पट्टबन्धनं मन्ये ।
या शक्यन्ते लब्धुं न पार्थिवेनापि विगुणेन ॥ ९९ ॥
सगुणैः सेवितोपान्तो विनीतैः प्राप्तदर्शनः ।
नीचोऽपि कूपः सत्पात्रैर्जीवनार्थं समाश्रितः ॥ ९२ ॥
चित्रं न तद्यदयम्बुधिरम्बुदौघ-
सिन्धुप्रवाहपरिपूरतया महीयान् ।
त्वं त्वर्थिनामुपकरोषि यदल्पकूप
निष्पीड्य कुक्षियुगलं हि महत्त्वमेतत् ॥ ९३ ॥
दिनमवसितं विश्रान्ताः स्मस्त्वया मरुकूप हे
परमुपकृतं शेषं वक्तुं चिरं न वयं क्षमाः ।
भवतु सुकृतैरध्वन्यानामशेषजलो भवा-
नियमपि घनच्छाया भूयात्तवोपतटं शमी ॥ ९४ ॥
भीमश्यामप्रतनुवदनक्रूरपातालकुक्षि-
क्रोडप्रान्तोपहितविभवस्याथ किं ते ब्रवीमि ।
येन त्वत्तः समभिलषतो वाञ्छितं क्षुद्रकूप
क्लाम्यन्मूर्तेर्भवति सहसा कस्य नाधोमुखत्वम् ॥ ९५ ॥
भूयःप्रयासपरिलभ्यकियज्जलस्य
रे कूप कोऽपि किमुपैति वदोपकण्ठम् ।
कूर्मः किमत्र कुचरित्रजनाभिरामे
ग्रामे न चास्ति तटिनी न सरो न वापी ॥ ९६ ॥
अथ तेजःकायाधिकारपद्धतौ प्रथममग्नेः ।
त्रयस्त्रिंशत्कोटित्रिदशमुखवन्द्योऽसि जगतां
किमेवं दह्यन्ते चपलपवनप्रेरकतया ।