अयमवसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम् ।
इदमपि [च] [१]सुलभमम्भो भवति पुरा जलधराभ्युदये ॥ ८४ ॥
एतस्मिन्मरुमण्डले परिचरत्कल्लोलकोलाहल-
क्रीडत्कुङ्कुमपङ्कमङ्कविलसन्निःशङ्कमत्स्यव्रजम् ।
केनेदं विकसत्कुशेशयकुटीकोणक्कणत्षट्पद-
श्रेणीप्रीणितपान्थमुज्ज्वलजलं चक्रे विशालं सरः ॥ ८५ ॥
माद्यद्दिग्गजदानलिप्तकरटप्रक्षालनक्षोभिता
व्योम्नः सीम्नि विचेरुरप्रतिहता यस्योर्मयो निर्मलाः ।
कष्टं भाग्यविपर्ययेणं सरसः कल्पान्तरस्थायिन-
स्तस्याप्येकबकप्रचारकलुषं जातं यदन्तर्जलम् ॥ ८६ ॥
स्तोकाम्भःपरिवर्तिताङ्कशफरग्रसार्थिनः सर्वतो
लप्स्यन्ते बकटिट्टिभप्रभृतयस्तल्लेषु साधुस्थितिम् ।
सद्यः शोषमुपागतेऽद्य सरसि श्रीसद्मपद्माकरे
तस्मिन्पङ्कजिनीविलासरुचयो हंसाः क्व यास्यन्त्यगी ॥ ८७ ॥
रे पद्माकर यावदस्ति भवतो मध्यं पयःपूरितं
तावच्चक्रचकोरकङ्ककुररश्रेणीं समुल्लासय ।
पश्चात्त्वं समटद्बकोटचटुलत्रोणीपुटव्याहति-
त्रुट्यत्कर्कटकर्परव्यतिकरैर्निन्दास्पदं यास्यसि ॥ ८८ ॥
अथ पद्मसरसः ।
क्रौञ्चः क्रीडतु कूर्दतां च कुररः कङ्कः परिष्वज्यतां
मद्गुर्माद्यतु सारसश्च रसतु प्रोड्डीयतां टिट्टिभः ।
भेकाः सन्तु बका वसन्तु चरतु खच्छन्दमाटिस्तटे
हंहो पद्मसरः कुतः कतिपयैर्हंसैर्विना श्रीस्तव ॥ ८९ ॥
- ↑ १.'इदमति सुलभं चाम्भो' इत्यपि पाठः.