अयं वारामेको निलय इति रत्नाकर इति
श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।
क एवं जानीते निजकरपुटीकोटरगतं
क्षणादेनं ताम्यत्तिमिनिकरमापास्यति [१]मुनिः ॥ ४३ ॥
इतः स्वपिति केशवः कुलमितस्तदीयद्विषा-
मितश्च शरणार्थिनः शिखरिपत्त्रिणः शेरते ।
इतोऽपि वडवानलः सह समस्तसंवर्तकै-
रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ ४४ ॥
द्यामारोहति वाञ्छति स्थगयितुं तेजोऽपि तेजस्विना-
मुच्चैर्गर्जति पूरयन्नपि महीमम्भोभिरम्भोधरः ।
कांश्चिद्द्रागुपजीव्य तोयचुलुकान्सिन्धो भवत्संनिधेः
पानीयप्रचयेषु सत्स्वपि न ते जातो विकारः क्वचित् ॥ ४५ ॥
अये वारांराशे कुलिशकरकोपप्रतिभया-
दयं पक्षप्रेम्णा गिरिपरिवृढस्त्वामुपगतः ।
त्वदन्तर्वास्तव्याद्यदि पुनरयं वाडवशिखी
प्रदीप्तः प्रत्यङ्गं ग्लपयति ततः कोऽस्य शरणम् ॥ ४६ ॥
किं वाच्यो महिमा महाजलनिधेर्यस्येन्द्रवज्राहति-
त्रस्तः क्ष्माभृदमज्जदम्बुनिचये कौलीनपोताकृतिः ।
मेनाकोऽपि गभीरनीरविलसत्पाठीनपृष्ठोल्लस-
च्छैवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः ॥ ४७ ॥
रत्नानि रत्नाकर मावमंस्था महोर्मिभिर्यद्यपि ते बहूनि ।
हानिस्तवैवेह गुणैस्त्विमानि भावीनि भूवल्लभमौलिभाञ्जि ॥ ४८ ॥
कल्लोलवेल्लितदृषत्परुषप्रहारै
रत्नान्यमूनि मकराकर मावसंस्थाः ।
किं [२]कौस्तुभेन विहितो भवतो न नाम
याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ॥ ४९ ॥
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१०६
दिखावट
पुटमेतत् सुपुष्टितम्
काव्यमाला ।
