पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९७
अन्योक्तिमुक्तावली ।

 अव्धेरर्णःस्थगितभुवनाभोगपातालकुक्षेः
  पोतोपायादिह हि बहवो लङ्घनेऽपि क्रमन्ते ।
 आहो रिक्तः कथमपि भवेदेष दैवात्तदानीं
  को नाम स्यादवरकुहरालोकनेऽप्यस्य शक्तः ॥ ३६ ॥
 ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी
  मुक्तौघाः सिकताः प्रवाललतिका शैवालमम्भः सुधा ।
 तीरे कल्पमहीरुहः किमपरं नाम्नापि रत्नाकरो
  दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति ॥ ३७ ॥
 एतस्मादमृतं सुरैः शतमखेनोचैःश्रवाः सद्गुणः
  कृष्णेनाद्भुतविक्रमैकवसतिर्लक्ष्मीः समासादिता ।
 इत्यादिप्रचुराः पुरातनकथाः सर्वेभ्य एव श्रुता
  अस्माभिर्न च दृष्टमत्र जलधौ मृष्टं पयोऽपि क्वचित् ॥ ३८ ॥
 संख्येया न भवन्ति ते युगशतैर्गाम्भीर्यमुख्या गुणाः
  सत्यं वारिनिधे तथापि तदिदं चित्ते विधत्ते व्यथाम् ।
 स्वच्छन्देन तिमिङ्गिला निजकुलग्रासं पुनः कुर्वते
  यत्ते वारयितुं निजेऽपि विषये न स्वामिता विद्यते ॥ ३९ ॥
तृषं धरायाः शमयत्यशेषां यः सोऽम्बुदो गर्जति गर्जतूच्चैः ।
यस्त्वेककस्यापि न हंसि तृष्णां स किं वृथा गर्जसि निस्त्रपाब्धे ॥४०॥
 कल्लोलैः स्थगयन्मुखानि ककुभामभ्रंलिहैरम्भसा
  क्षारेणापि दिवानिशं जलनिधे गर्जन्न विश्राम्यसि ।
 एतत्ते यदि घोरनक्रनिलयं स्वादुं विधास्यद्विधिः
  किं कर्तासि तदा न वच्मि तरलैस्तैरेव दुश्चेष्टितैः ॥ ४१ ॥
 यद्वीचीभिः स्पृशसि गगनं यच्च पातालमूलं
  रत्नैरुद्दीपयसि पयसा यत्पिधत्से धरित्रीम् ।
 धिक् सर्वं तत्तव जलनिधे यद्विमुच्याश्रुधारा-
  स्तीरे नीरग्रहणरसिकैरध्वगैरुज्झितोऽसि ॥ ४२ ॥