पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९६
काव्यमाला ।

 क्षारीकृतं च वडवावदने हुतं च
  पातालकुक्षिविवरे[१] विनिवेशितं च ॥ २९ ॥
 चपलतरतरङ्गैर्दूरमुत्सारितोऽपि
  प्रथयति तव कीर्तिं दक्षिणावर्तशङ्खः ।
 इति कलय पयोधे पद्मनाभार्घयोग्य-
  स्तव निकटनिषण्णैः क्षुल्लकैः श्लाध्यता का ॥ ३० ॥
बद्धस्त्वं ननु राघवेण जलधे मुष्टोऽसि देवासुरै
 श्रीमद्रामशराग्निभीतमनसा त्यक्ता त्वया मेदिनी ।
आपीतस्त्वमगस्तिना निमिषतः कृत्वाथ मुक्तो भवान्
 लोके गर्जसि यत्पुनस्त्वमधुना निर्लज्ज तुभ्यं नमः ॥ ३१ ॥
किं चन्द्रेण महोदधेरुपकृतं दूरेऽपि संतिष्ठता
 वृद्धौ येन विवर्धते व्रजति च क्षीणे क्षयं सागरः ।
आ ज्ञातं पर कार्यनिश्चितधियां कोऽपि स्वभावः सतां
 स्वैरङ्गैरपि येन यान्ति तनुतां दृष्ट्वा परं दुःखितम् ॥ ३२ ॥
किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः स्वयं
 वाच्यः किं महिमापि यस्य हि किल[२] द्वीपं महीति श्रुतिः ।
त्यागः कोऽपि स तस्य बिभ्रति जगद्यस्यार्थिनोऽप्यम्बुदाः
 शक्तेः कैव कथापि यस्य भवति क्षोभेण कल्पान्तरम् ॥ ३३ ॥
एतस्माजलधेर्जलस्य कणिकाः काश्चिद्गृहीत्वा ततः
 पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः ।
भ्राम्यन्मन्दरकूटकोटिघटनाभीतिभ्रमत्तारिकां
 प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमानभूदच्युतः ॥ ३४ ॥
दूरान्मार्गे ग्लपितवपुषो मारुतोत्तंसिताम्भः-
 कल्लोलालीबहुलिततृणे धाविताः पान्थसार्थाः ।
व्यावर्तन्ते तटमुपगता यस्य विच्छिन्नवाञ्छा-
 स्तस्याम्भोधेर्विपुलपयसः कार्यतः किं न शुष्कम् ॥ ३५ ॥


  1. 'कुहरे' इति पाठः.
  2. 'नय' इत्यपि पाठः,