अधः करोषि यद्रत्नं मूर्ध्ना धारयसे तृणम् ।
दोषस्तवैव जलधे रत्नं रत्नं तृणं तृणम् ॥ १८ ॥
अनया रत्नसमृद्ध्या सागर लहलहसि किमिह लहरीभिः ।
तव वल्लभा वराक्यो वहन्ति वर्षासु सलिलानि ॥ १९ ॥
हेलोल्लालितकल्लोल धिक् ते सागर गर्जितम् ।
यस्य तीरे तृषक्रान्तः पान्थः पृच्छति कृषिकाम् ॥ २० ॥
निषेव्य सरितां पत्युस्तटीं पक्षिगणा अपि ।
यत्पिबन्ति सरस्तोयं सैव लज्जा महोदधेः ॥ २१ ॥
अब्धिना सह मित्रत्वे दारिद्र्यं यदि जायते ।
लाञ्छनं सागरस्यैव मैत्रीकर्तुर्न लाञ्छनम् ॥ २२ ॥
अन्तः किंचित्किंचिन्मुक्तानामह्ह् विभ्रमं वहसि ।
दूराद्दर्शयसि पुनः क्षारोद्गारं जडाधीशः ॥ २३ ॥
अस्ति जलं जलराशौ क्षारं तत्किं विधीयते येन ।
लघुरपि वरं स कूपो यत्राकण्ठं जनः पिबति ॥ २४ ॥
मथितो लङ्घितो बद्धः पीतो यद्यपि सागरः ।
गर्जत्युच्चैस्तदप्येष जडात्मानो हि निस्रपाः ॥ २५ ॥
यद्यपि बद्धः शैलैर्यद्यपि गिरिमथनमुपितसर्वस्वः ।
तदपि पुरंदरभीतक्ष्माधररक्षासु दीक्षितो जलधिः ॥ २६ ॥
यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन् ।
तथापि जानुदघ्नोऽयमिति चेतसि मा कृथाः ॥ २७ ॥
स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः
कल्याणिनी भवतु मौक्तिकशुक्तिरेषा
प्राप्तं मया सकलमेतदतः पयोधे-
र्यद्वारुणैर्जलचरैर्न विदारितोऽस्मि ॥ २८ ॥
आदाय वारि परितः सरितां मुखेभ्यः
किं तावदर्जितमनेन [१]महार्णवेन ।
- ↑ 'दुरर्णवेन' इति पाठः.