पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९७ प्रसिद्धपरतां त्यत्कां नाप्रसिद्धगतिर्नयः ॥ २८ ॥ । न भूते सदसच्छब्दौ प्रसिद्दौ वस्त्ववस्तुगौ । श्रुत्यन्तराऽविरोधाय सदेकं ब्रह्म चिद्धनं ॥ २९ ॥ सदासीत्तन्न चासीद्दा संसदसद्भ्यां विलक्षणं । नासदासीदिति श्रुत्या ऽनिर्वाच्यं सिद्यतीत्यतः ॥३०॥ प्रमाणसम्भवादेवानिर्वाच्यख्यातिरिष्यते न चाऽसदन्यथाख्यातिः प्रमाणविरहान्विता ॥ ३१ ॥ असदेवमभाद्रप्यमित्येवं सद्विलक्षणं । विषयीकुरुतेत मानं नासद्वाधकसम्भवात् ॥ ३२ ॥ नानुमानमसद्भाने बाधाद्युक्तवा पुरोक्तया । तथाऽङ्गीकारतस्ते स्यात्प्रवेशः सौगते मते ॥ ३३ ॥ पारमार्थिकयोरेवेतेि सार्द्धयोजना ॥ २८ ॥ २९ ॥ नो सदासीदि-. त्यत्र सच्छब्दस्य परमार्थसत्परत्वे व्यावहारिकसतो रजःप्रभृतेर्नि षेधस्य ततः प्राप्त्यभावातू * आनीदवातं स्वधया तदेकमितिवा क्यशेषाष्ट्रह्मणोऽप्यनिर्वाच्यत्वप्रसङ्गः 'तम आसीदिति' वाक्या दविद्याया इवेति चेत् नेत्याह-“ श्रुत्यन्तरे ' ति सार्द्धन । सदेकं ब्रह्रैव सदासीन्न सदसद्विलक्षणमासीदित्यर्थपर्यवसानादि त्यर्थः ॥ ३० ॥ तस्मादनिर्वाच्यख्यातिरेव प्रमाणसम्भवातू न त्व सदन्यथाख्यातिः प्रमाणविरहातू न चाऽसद्भाने असदेव रजतम भादिति प्रत्यक्षं मानं अनन्तरोक्तबाधकेन सद्वैलक्षण्यविषयत्वादि त्याह-* प्रमाणेत्यादि ?’ युग्मेन ॥ ३१ ॥ ३२ ॥ असद्भाने नानुमानं प्रमाणमित्याह-* नांतेि ' ॥३३॥ ननु