पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [१ परिच्छेदे न वा सदुपरागोऽत्र विशेषः सोऽप्यसन्मतः । ततोऽसद्न्यथाख्यातिरसाध्वी दुष्टसम्मता ॥ ३४ ॥ न वाऽन्यत्र स्थितस्यैव रूप्यादेर्भानतो भवेत । अन्यथाख्यातिरत्रापि सन्निकर्षाद्ययोगतः ॥ ३५ ॥ संस्कारस्मृतिदोषाणां प्रत्यासतित्वमत्र नो । रूप्यप्रत्यक्ष एतस्य संयोगः कारणं मतं ॥ ३६ ॥ ततोऽनिर्वाच्यमेवेदं सर्वं विश्धं सहेतुकं । तच्चानिर्वाच्यमज्ञानोपादानकामितीरितम् ॥ ३७ ॥ तत्त्वज्ञाननिवत्र्यत्वात्तथात्वं तस्य साधितं । बौद्धमतात्सदुपरागो विशेषः स्यादिति नेत्याह-“ नवेति ? ’ । तथाऽप्यसत्तूख्यात्यापतेस्तदवस्थत्वमिति नासदन्यथाख्यातिरित्य-. थः ॥ ३४ ॥ अन्यथाख्यातिरप्यसाध्वीत्याह -* नवति अत्यन्नासत इवान्यत्र सतोऽपि अपरोक्षप्रतीतिप्रयोजकसन्निकर्षा सुपपत्तस्तुल्यत्वादित्यर्थः ॥ ३५ ॥ संस्कारादीनां प्रत्यासत्तित्वं नि राकरोति--- * संस्कारेति ? । रजतप्रत्यक्षमात्रे रजतसंयोग त्वेन कारणत्वावधारणात्संनिकर्षान्तरसत्वेऽपि तदभावे रजतप्र त्यक्षोत्पत्तेर्वकुमशक्यत्वातू न तेषां प्रत्यासत्तित्वमित्यर्थः ॥ ३६ ॥ फलितमुपसंहराति -* तत इत्यर्द्धन । ॥ असत्ख्वात्यादिनिरासः ॥ किमुपादानक तादित्यत आह* तचेति ?' । नन्वेवं रु प्यमुत्पन्न नष्टं चेति धीप्रसङ्गःत्रैकालिकनिषेधप्रतीतिश्च न स्यादिति तत्त्वज्ञानात ? । फलबलेनात्यन्ताभावधीसाम ८४

  • *