पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आविद्यकरजतादेर्निषेधोपपत्तिः । ९९ यद्वाऽस्य न स्वरूपेण तैकालिकनिषेधने ॥ ३८ ॥ प्रतियोगत्वमपि तु तात्विकत्वेन सम्मतं । प्रतीतं तात्विकत्वं तत्प्रातीतिकमिहेष्यते ॥ ३९ ॥ लोके वा. तात्विकत्वेन प्रसिद्धरजतस्य तत । त्रैकालिकनिषेधैकप्रतियोगित्वमिष्यते ॥ ४० ॥ नेह नानेति वेदान्ते किं चनति पदेरणात् । सर्वस्याऽपि निषिद्धत्वान्न प्रपञ्चान्तरोत्थितिः ॥४१॥ यू एव बलवत्वेन तथात्वमनिर्वाच्यत्वं तत्वज्ञानैकनिवत्र्यत्वं प्रा कप्रसाधितमित्यर्थः ॥ ३८ ॥ पक्षान्तरेणापि तद्वढयति-* यद्वेति ” । न च पारमार्थि कत्वस्यापि प्रतिभाससमये प्रतीतत्वेन त्रैकालिकनिषेधप्रतियोगित्वं न सम्भवति रजतप्रतियोगित्वेजानुभवविरोधश्चेति वाच्यम् । प्रतींति कालप्रतीतं पारमार्थिकत्वमपि प्रातीतिकमेवेति न तन्निषिध्यते किं तु अन्यत्र वृत्ति तदिति तेनाकारेण रजतस्यैव निषेध इति न तत्प्रतियोगित्वेनुभवविरोधोऽपीति भावः ॥ ३९ ॥ यद्वा लौकिक परमार्थरजतस्यैव तत्र त्रैकालिकनिषेध: न च तर्हि नेह नानेति नि षधायापि तात्विकप्रपश्चान्तरोरीवकारापत्ति: नेह नानेति निषेधस्यले किञ्चनेति पदसंदंशात् सर्वनिषेधे प्रतीयमाननिषेधस्यावश्यकतया निषेध्यत्वेन प्रपञ्चान्तरकल्पनाया गौरवकरत्वातू प्रकृते तु सर्व त्धेन प्रतियोग्यनुछेखातू झापणस्थरूप्यनिषेधस्य इदम्यावश्यकत्वे नाप्रतीतनिषेधकल्पनैव युक्तेति दृदि निधायाह-* लोक 'इति द्वाभ्यां ॥ ४० ॥ ४१ ॥ नन्वेवमपि रूप्यस्य कथमशानमुपादानं