पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यावहारिकसत्त्वस्यैव प्रतियोगित्वादौ प्रयोजकत्वम् । ९५ मानस-त्वेन चास-त्वे सदसत्वे भवेद्यतः ॥ २० ॥ ख्यातिबाधान्यथासिद्धयाऽनिर्वाच्यत्वं मतं दृढं । बाध्यत्वमप्यनिर्वाच्ये न सत्ये नासतीष्यते ॥ २१ ॥ एवं च सत्यनिर्वाच्यभाव एव प्रयोजकः । प्रतियोगित्वमुख्येऽपि न सत्वादिविकल्पकः ॥ २२ ॥ असत्वं नि:स्वरूप-त्वं तद्भिन्नाः सस्वरूपताः । सस्वरूपत्वमेतस्माद्भाति निष्प्रतियोगिक ॥ २३ ॥ नासति प्रतियोगित्वं शशशृङ्गादिवस्तुनि । प्यात्मना प्रतीतौ सामग्रीविरहस्योपपादनादित्यर्थः ॥ २० ॥ ख्यातिबाधान्यथाऽनुपपत्युपन्यासः । केचित्तु बाध्यत्वं सत्यसति चानुपपन्नमित्यनिर्वाच्यत्वमित्या हुरित्याह-* बाध्यत्वमिति ?' ॥ २१ ॥ एवं च सत्यनिर्वाच्यत्वमेव प्रतियोगित्वादौ प्रयोजकमिति स्थितमित्याह - “एवमिति ? ॥ २२ ॥ नन्वसद्वैलक्षण्यापेक्षया लघुत्वाव्सत्वमेव प्रतियोगित्वादौ प्रयोजकमस्तु तथा चानिर्वाच्य त्वेऽपि प्रतियोगित्वादिकमनुपपन्नमेवेत्याशङ्कय सत्वमेव यत्किश्चि त्कालाबाध्यत्वरूपं तत्र प्रयोजक. न तु त्रिकालाबाध्यत्वरूपं गौर वात्तथा चानिर्वाच्यत्वपक्षे नानुपपत्ति: असत्वं तावन्निःस्वरूपत्वं तद्वैलक्षण्यं सखरूपत्वं तञ्च निष्प्रतियोगिकमेव तथा च नासति प्रतियोगित्वप्रतिपत्तिरित्यभिप्रेत्याह--“ सत्वमिति ' ॥ २३ ॥ ननु शशञ्टङ्ग नास्तीति प्रत्यक्षत एवासति निषेधप्रतियोगित्वमनु भूयते इ.ि वेत्रेत्याह -* नासतीति " । योग्यानुपलब्धिस्ताव