पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [१ परिच्छेदे अबाध्यत्वं हि वा सत्वं न चापाद्या विशिष्टता । त्रैकालिकनिषेधस्याप्रतियोगित्वमेव तत ॥ १ ७ ।। प्रतीत्यभावेऽप्यसतोऽसन्नृशृङ्गमितीष्यते । तत्र सर्वोपपत्तिः स्याद्विकल्पेनैव शब्दतः ॥ १८ ॥ विकल्पस्याऽपि ज्ञानान्यवृत्ति-त्वे बाधकं न हि ॥१९॥ प्रवृत्तिविषयत्वस्याऽन्यथासिद्धिरपि प्रमा । त्वमेव सत्वमिति पक्षान्तरमाह-*अबाध्यत्व' मिति । न च त ह्यपाद्यावैशिष्ट्यं अबाध्यत्वं हि त्रैकालिकनिषेधाप्रतियोगित्वं तेन च विपरीतप्रमाविषयत्वाभाव. अापाद्यत इति नापाद्यावैशिष्ट्यं व्यवहारस्यापाद्यत्वेन वा नापाद्यावैशिष्ट्यमित्यर्थः ॥ १७ ॥ नन्वसत्वं चेन्न प्रतीयेतेत्युक्त तदयुक्त असन्नृश्टङ्गमित्यादिवा यादसतोऽपि प्रतीतेः अन्यथाऽसद्वैलक्षण्यशानायोगः असत्प्रती तिनिरासायोगश्च असत्पद्स्यानर्थकत्वे प्रयुक्तपदानां सम्भूयका रित्वायोगे बोधकत्वानुपपत्तिः असतोऽसत्त्वेनाप्रतीतौ असद्यवहा रानुपपत्तिः तदुक्त ‘असद्विलक्षणज्ञप्तौ ज्ञातव्यमसदेव हि । तस्मा दसत्प्रतीतिश्च कथं तेन निवार्यते' इत्याशङ्का परिहरति

  • प्रतीत्यभाव ' इति द्वाभ्यां । विकल्पस्य ज्ञानान्यवृत्तित्वे

बाधकाभावातू शशविषाणमनुभवामीत्यप्रत्ययातू वस्तुशून्यता च सोपाख्यधमनुलेखित्वं अतो न कोऽपि दोषः विकल्पस्य ज्ञानत्वे तु तदन्यज्ञानविषयत्वाभाव आपाद्यः शुक्तिरूप्यादेरसत्वे च प्रती तिविषयत्वं विकल्पान्यप्रतीत्यविषयत्वं वाऽनुपपन्नमित्यनिर्वाच्यत्वै सिद्धमिति भावः ॥ १८ ॥ १९ ॥ एवं प्रवृत्तिविषयत्वाऽन्यथाऽसुपप तिरपि तत्र प्रमाणमित्याह-* प्रवृत्तीति ' । इदमंशस्यास