पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनिर्वाच्यत्वेऽर्थापत्तिप्रदर्शनम् । प्रतीयतेऽतों निर्वाच्यं सद्सद्भिन्नमिष्यते ॥ १३ ॥ प्रामाणिकत्वं सत्वं स्यात्तत्वावेदकता प्रभा । सा च शुद्धपरब्रह्मबाधकश्रुतिवाक्यगा ॥ १ ४ ॥ ब्रह्मणः स्वप्रकाशत्वेऽप्यज्ञानविनिवृत्तये । साफल्यं स्यात्प्रमाणस्य प्रवृत्तेर्न क्षतिस्ततः ॥ १५ ॥ अतत्वावेदकत्वेऽपि रजताद्यप्रमात्वके । बाध्यं प्रयोजकत्वं स्याद्वाधके न्यूनसल्वतः ॥ १६ ॥ अथपतिस्वरूपभाह–“रूप्यमेिति' ॥ १३ ॥ सत्वं किं स्वरूपमित्यत आह-* प्रामाणिकत्वमिति ? । तश्चापि त - त्वावेदकत्वमेव, तत्वावेदकता शुद्धब्रह्मबोधकत्रेदान्तवाक्ये न तु निर्विशषत्वादिधर्मप्रतिपादके अतो न तत्र व्यभिचार इत्यर्थः । ननु ब्रह्मणि खतो भासमाने चिन्मात्रे वैयथ्र्येन प्रमाणाप्रवृत्या प्रामाणि कत्वाबाध्यत्वयोव्र्याप्तिग्रहो न स्यात् प्रत्युत ब्रह्मभिन्न एव प्रामाणि कत्धसत्वेन तस्य बाध्यत्वेनेव सह व्याप्तिः स्यादित्याशङ्का ब्रह्मणं: स्वप्रकाशत्वेऽपि व्यवहारप्रतिबन्धकाझानानिवृत्यर्थ प्रमाणप्रवृत्तेः स इति । अत एव न बाध्यत्वेन. सह प्रामाणिकत्वस्य व्याप्तिः ब्रह्मणि व्यभिचाराद्विरोधाश्च न हि तत्व मावेदयता वेद्यमतत्वं नामेति भावः ॥ १५ ॥ ननु रूप्यादिबाधक स्य तत्वावेदकत्वेऽद्वैतहानिः अतत्त्वावेदकत्वे तन्निबन्धनं रूप्यादे एप्रामाणिकत्वं न स्यादिति चेन्नेत्याह-* तत्वेतेि ? | बाधक स्यातत्वावेदकत्वेऽपि ‘रूप्याद्यप्रामाणिकत्वे प्रयोजकतैव बाध्यान्यू: नसत्ताकत्वस्यैच बाधकत्वे तन्त्रत्वादित्यर्थः ॥ १६ ॥ यद्वा ऽबाध्य ] ]

  • *