पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे न साध्यं व्याहृतं वा स्यात्समाहितया पुरा ॥ ९ ॥ नार्थान्तरं भवेद्वाधान्नाभाससंमता तथा । न वा सत्प्रांतपक्षश्च ख्यातिबाधाद्यभावतः ॥ १० ॥ ख्यातिबाधान्यथासिद्धाऽप्यनिर्वाच्यत्वमक्षतं । ततोऽनुमानमप्यंत्र प्रमाणमिति साधितं ॥ ११ ॥ ख्यातिबाधान्यथासिद्धिरूपार्थापतिरप्यमं । प्रमाणं साधयत्यर्थ तथैवाल निदर्यते ॥ १ २ ।। रूप्यं सचेन्न बाध्येत न प्रतीयेत यद्यसत । द्वेन । अतात्विकत्वेन परस्परविरहानात्मकत्वेन च समाहितत्वा दित्यर्थः ॥ ९ ॥ ननु ब्रह्मवत्सत्वराहियेऽपि सदूपत्वेनानिर्वाच्य त्वाभावोपपत्त्या अर्थान्तरामित्याशङ्का सत्वरहितस्य प्रपञ्चस्य स पत्वे भानाभावेन बाधान्ब्रह्मणि च शून्यतापत्तिरेव सत्दूपत्वे प्रमाण मित्यभिप्रेत्याहं–“ नार्थान्तरमिति *' । ननु विमतं सदंसदा त्मकं बाध्यत्वातू व्यतिरेक ब्रह्मवदित्याभाससंाम्यं, विमतं असत्स त्वानधिकरणत्वान्नृश्टङ्गवदिति सत्प्रतिपक्षश्धत्याशङ्का ख्यातिबाधा न्यथाऽनुपपत्तिलक्षणविपक्षबाधकतर्कस्य वक्ष्यैमाणत्वेनाभाससाम्य सत्प्रातिपक्षयो रभावादित्यभिप्रेत्याह-“नाभाससमते'त्यादि॥१०॥ ॥ अनिर्वाच्यत्वसाधकानुमानोपन्यास: ॥ ख्यातिबाधाद्यभावत इत्युक्तं विवृणोति-“बाधे ' स्यादि ॥११॥ वक्ष्यमाणमेव दर्शयति--* ख्यातीति