पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९० सव्याख्याद्वैतासिद्धिसिद्धान्तसारे । [ १परिच्छेदे सत्त्वादिना विचारैकासह-त्वं द्विविधं मतम् । स-त्वादिसर्वकालीनाभावाधार-त्वमादिमम् ॥ २ ॥ सद्रप-त्वाद्यभावोऽन्यो नातिव्याप्तिरतश्चिति । निर्विशेषेकसदूपतया कोपोऽन्यथाश्रुतेः ॥ ३ ॥ न सत्यादिगिरा साक्षाद्वक्तुं शक्यं चिद्द्वयं । लक्षणाऽङ्गीकृता तस्मादनिर्वाच्यत्वमक्षतं ॥ ४ ॥ प्रत्यक्षमनुमानं चागमोऽर्थापतिरिष्यते । प्रमाणं तावदत्रास्ति प्रत्यक्षमविपर्ययम् ॥ ५ ॥ दिना विचारासहत्वै सत्वाद्यत्यन्ताभावाधिकरणत्वं, न चातिव्या प्तित्रैह्मणि सत्वचत्तदत्यन्ताभावस्याप्यभावातू अन्यथा निर्विशेष त्वादिश्रुतिविरोधापत्तेरित्यभिप्रेत्याह- - “ सत्वेति ? द्वाभ्यां। यद्वा सत्वादिना विचारासहत्वं सदूपत्वाद्यभावः सत्वरूपभ्रम भावेपि यथा ब्रह्मणः सपत्वं तथोपपादितमधस्तादित्यतो न त स्रातिव्याप्तिरित्यभिप्रेत्याह-* नातिव्याप्तिरितेि ? ॥ २ ॥ ३ ॥ नन्ववं सदात्मके ग्रह्मणि श्रौतसत्यपदादौ लाक्षणिकत्वं न स्या दिति तत्राह--* नेति ?' 1 सत्वधर्मविशिष्टवाचकस्य तस्य नेि द्वैर्मके लक्षणाया आवश्यकत्वात् न हि निर्द्धर्मकखरूपमात्रवाच कत्वं कस्य(१)चिदपि पदस्यास्ति तस्मान्ना शुक्तिरूण्यप्रपञ्धसाधारणा निर्वाच्यत्वलक्षणानुपपत्तिरित्याभिप्रायः । । लक्षणमुक्ता प्रमाणमाह“प्रत्यक्षमिति । तत्र प्रत्यक्षं ताव दाह--* प्रत्यक्षमिति ? ॥ ५ ॥ न च मिथ्याशब्दोऽसत्पर्यायः व (१) यदापि विशिष्टवाचकस्यं शृङ्गेऽपि शक्तिरेव तथाऽपि विशिटवीधकवयौत्स गैिकस्य बाधनं खवशेति व्यपदेश आकाशादिपदम्वाऽपि शुड शक्तिर्न सर्वसन्तेति भावः ।