पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [१परिच्छेदे चिदचिद्ग्रन्थिरूपत्वाद् ढंशोऽहङ्कार इष्यते । तत्राचिदंशे बुद्धौ हि कर्तृत्वं धर्म ईक्ष्यते ॥ ८७ ॥ बुद्धेस्तु तद्विशिष्टायाश्चित्यैक्याध्यासमन्तरा । अहं कर्तेति भानस्यायोगेनाध्यास इष्यते ॥ ८८ ॥ नर्थस्यात्मन्यभावे तस्य बन्धमोक्षानधिकरणत्वापतिः द्वितीये अन ध्यासेनैवाहं कर्तेति प्रतीत्युपपत्तौ किमध्यासेनेत्याशङ्कयाह

  • चिदचिदिति ? । अहङ्कारस्तु चिदचिद्रन्थिरूपतया छांश: त

त्राचिदंशे बुद्धौ कर्तृत्वसत्वेऽपि तद्विशिष्टाया बुद्धश्चियैक्याध्यासं विनाऽहङ्कर्तृति प्रतीतेरयोगेनाध्यासस्यावश्यकन्वात् । एतेनारोपित कर्तृत्वस्याप्यभावे आत्मनो बन्धमोक्षानाधिकरणत्वं स्यादिति निरस्त मिति द्रष्टव्यमिति भावः ॥ ८७ ॥ ननु ‘कत्त(१)शास्राथैवत्वादित्यधिकरणे त्वयापि सांख्यरीस्या बुद्धेः कर्तृत्वे प्राझे तजीवस्यैवेति सिद्धान्तितत्वेन विरोधः स्यादिति चेन्नेत्याह-“ बुद्वेरिति ?' । बुद्धेरेव कर्तृत्वं भोकृत्वं चैतन्य स्येति पूर्वपक्षं कृत्वा कर्तृत्वभोत्कृत्वयोरैकाधिकरण्यनियमेन भो कृत्ववत्कर्तृत्वमप्यङ्गकर्तव्यमित्युक्त न तु बुद्धेरकर्तृत्वं आत्मनो वा खाभाविकं कर्तृत्वमिति * यथा(२)श्व तक्षोभयथे 'त्युत्तराधिकरणे पूर्वाधिकरणोक्तस्य आत्मकर्तृत्वस्य खाभाविकत्वं पूर्वपक्षयित्वौ पाधिकत्वस्य स्थापितत्वातू अतो न तदधिकरणविरोध इति तात्प यथैः ॥ ८ ॥ ननु कर्तृत्वाद्यनर्थरूपबन्धस्य बुद्धिगतत्वेन मोक्ष स्यापि तदन्वयापत्तिः अनर्थतन्निवृत्योरैकाधिकरण्यनियमादिति