पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्तृत्वादिविशिष्टान्तःकरणैक्याध्यासादात्मनिकर्तृत्वादैरुपपतिः ॥८५ अनात्मत्वमहङ्कारे सिद्धं भ्रान्त्या समुत्थिते ॥ ८२ ॥ सुप्तौ विलयमायाति जागररादौ स जायते । आत्मभानेऽप्यभानात्स्याद्नात्माऽसौ विनिश्चितः॥८३॥ भौतिकत्वाद्विनाशित्वाद् दृश्यत्वाचव जडत्वतः । विकारत्वादनात्मत्वमहङ्कारस्य सिद्धतेि ॥ ८ ४ ॥ यथा देहघटादीनामनात्मत्वं विनिश्चितं । तथैवास्याहमोऽप्यस्ति विचाराच्छ्रुतियुक्तिभिः ॥८५॥ कर्तृत्वमात्मनो नास्ति स्वभावादक्रियस्य यत् । कर्तृत्वादिविशिष्टाया बुद्धेरध्यासतो हि तत् ॥ ८६ ।। ॥ ८२ ॥ तस्यानात्मत्वं स्फुटयति -“ सुप्ताविति ? त्रिभिः॥८३॥ ॥ ८४ ॥ ८५ ॥ ॥ अहमर्थस्यानात्मत्वोपपत्तिः ॥ ननु कर्तृत्वं यद्यतात्मधर्मः स्यात्कथमात्मनि भासेत न च ज पाकुसुमस्थं लौहित्यं स्फटिक इवान्तःकरणगतं कर्तृत्वमात्मन्यध्य स्यते न तु तात्विक निर्विकारत्वश्रुतिविरोधातू सुषुप्तौ बुद्धयभावे ऽकर्तृत्वदर्शनाचेति वाच्यं एवं हि रक्त कुसुममिति वत्कदाचिन्मन: कत्रिंति प्रत्यक्षप्रमा लोहितः स्फटिक इति वञ्चैतन्यं कत्रेिति भ्रमश्च स्यादित्याशङ्काह-* कर्तृत्वमिति ? । कर्तृत्वविशिष्टान्तःकर णस्य चैतन्यात्मनाध्यासेन तथा प्रतीतिः कुसुमस्य स्फटिकात्मना। नाध्यास इति वैषम्यादिति भावः ॥ ८६ ॥ ननु बुद्धिगतं कर्तृत्वं कि महमर्थे अहमर्थगतं वा आत्मनि अध्यस्यले आद्ये आरोपितस्याप्य