पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• . खयम्प्रकाशस्याऽऽप्यावृतत्वोपपादनम् । पूर्णानन्दात्मनाऽभानेष्यपरोक्षत्वयोग्यता । जीवमध्यस्तभेदं प्रत्यावृतत्वाचितः स्वतः ॥ ७४ ॥ उभयोरप्यनादित्वान्नानन्तर्य मिथोऽनयोः । तज्ञेदापगमे शुद्धचैतन्यं मोक्ष इष्यते ॥ ७५ ॥ त्वदुक्तमर्थ नो वेटमीत्येवं भातेऽपि वस्तुनि । अज्ञानानुभवात्साक्षी नाज्ञानेन विरुच्यते ॥ ७६ ॥ ननु दीपाचरकघटादिवचैतन्यावरकाविद्या चैतन्यस्यान्यसं म्बन्धं प्रतिबश्वातु अन्यं प्रति चैतन्यमाछादयतु न तु चैतन्यं प्रत्येवं चैतन्ये उक्तयोग्यत्वरूपप्रकाशविरोधिनी सा नाहि दीपो घटावृत्तोऽपि स्वयं न प्रकाशते तमःसम्बन्धापातात् । न च कल्पितभेददं जीव चैतन्यं प्रति शुद्धचैतन्यमाछादयतीति वाच्यं । आवरणं विना भे दकल्पनस्यैवायोगातू यो मोक्षे भावी चिन्मात्रस्यैव चिन्मात्रं प्रति प्र काशस्तदभावस्यैवेदानीमज्ञानेन साधनीयत्वाचेति चेन्नेत्याह-“जी वमिति साद्धेन। कल्पितभेदं जीवं प्रति शुद्धचैतन्यस्यावृतत्वात् । न च भेदकल्पनस्यावरणोत्तरकालीनत्वादिदमयुक्तमिति वाच्यम् । भेदावरणयोरुभयोरप्यनादित्वेन परस्परमानन्तर्याभावात् । यश्चो क्त मोक्षे भावी चैतन्यस्य चैतन्यं प्रति प्रकाश: तदभाव इदानीमझा नसाध्य इति तन्न, मोक्षे जन्यस्य प्रकाशस्याभावात् कल्पितभेदा पगमे शुद्धचैतन्यं प्रत्येव प्रकाशस्य जीवं प्रत्यपि सम्भवात् न का चिदप्यनुपपत्तिरित्यर्थः ॥ ७४ ॥ ७५ ॥ यश्चोक्तं प्रकाशस्वरूपे चै तन्ये कथमज्ञानं नह्यालोके तम इति तत्राह-“त्वदुक्तमिति' । तथा च सविषयाज्ञानसाधकत्वात्साक्षिरूपविषयप्रकाशोपि नाज्ञान विरोधीति भावः