पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे तथैव कल्प्यते सर्व भूतभौतिकविश्वकं ॥ ७० ॥ । स्वेनैव कल्पिते देशे व्योम्न्नि यद्वद्धटादिकं । तथा जीवाश्रयाविद्यां मन्यन्ते ज्ञानकोवेिदाः ॥७१॥ चिन्मात्रं विषयोऽस्त्यस्याः स्वयं ज्योतिरकल्पितं । नान्यदज्ञानकार्यत्वादप्रसक्तप्रकाशनं ।। ७२ ।। स्ययम्भानार्हमावृत्या न भातीत्याततं सुखं । प्रकाशमानताऽध्यासाधिष्ठानत्वेन चेष्यते ॥ ७३.॥ अज्ञानस्य चिदाश्रयत्वे चिद्धीनस्थितिकत्वेपि विति अविद्याश्रित त्वतदधीनस्थितिकत्वयोरभावात् । न चैवमन्योन्याधीनताक्षतेि: समानकालीनयोरपि अवच्छद्यावच्छेदकभावमात्रेणं तदुपपत्तेर्धटत दवच्छिन्नाकाशयोरिवति तात्पर्यार्थ ॥ ७० ।। तत्राभियुक्तसंमतिं दर्शयति-“ स्वेनेतेि ' ' ॥ ७१ ॥ ॥ अज्ञानस्य जीवाश्रयत्वोपपत्तिः ॥ अविद्याया विषयोपि सुवच इत्याह-“चिन्मात्रमितेि' । चि न्मात्रमेव विषयोऽविद्याया तस्याः कल्पितत्वेनान्योन्याश्रयादि दोषाप्रसक्त: स्वप्रकाशत्वेन प्रसक्तप्रकाशे तस्मिन्नावरणकृत्यसम्भ वाञ्ध, नान्यत् तस्याज्ञानकल्पितत्वातू अप्रसक्तप्रकाशत्वेन आवर एणकृत्याभावाश्चेत्यर्थः ॥ ७२ ॥ शुद्धरूपायाश्धितः प्रकाशमानत्वेऽपि तस्या एव परिपूर्णाद्याकारेणाप्रकाशशुमानत्वात् तदर्थे तस्या एवावर णकल्पनात् परिपूर्णाद्याकारस्य मोक्षदशानुवृतत्त्वेन शुद्धचिन्मात्र त्वमित्यभिप्रेत्याह-“अद्वयेति'। आवरणमहित्रैव परिपूर्ण ब्रह्म नास्ति न प्रकाशत इति व्यवहारः अस्ति प्रकाशत इति व्यवहारप्रति बन्धश्च अध्यास्लाधिष्ठानादिना प्रकाशमानता चांविरुद्धा परिपूर्णा द्याकारेण इदानीं व्यवहांराभावेपि, अपरोक्षव्यवहारयोग्यत्वानपा यादिति सार्द्धतात्पर्यार्थः ॥ ७३ ॥