पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चिन्मात्रस्योऽङ्गानाश्रयत्वोपपतिः । - न चिन्मात्रं विरोध्यस्याः साधकत्वेन सम्भवेत् । तदेव बुध्धिवृत्तिस्थं विरोधि श्रुतिमानतः ॥ ६० ॥ चितोऽपि वृस्यवच्छेदादज्ञानेन विरोधिता । तृणादेर्भासकस्यापि दाहकत्वं यथा रवेः ॥ ६१ ॥ चितोऽज्ञामाश्रयत्वेपि प्रमाणं श्रुतिरिष्यते । मायां(१)तु प्रकृतिं विद्यान्मायेिनं तु महेश्वरं ॥ ६२॥ अज्ञानानाश्रयत्वेऽपि जीवोऽज्ञ इति सम्भवेत् । ' ( १ ) थेताश्व० ३. ध० १ ! ७७ त्वादिति चेन्नेत्याहः -“ नांत ? ' । अज्ञानविरोधि ज्ञानं हि न चैतन्यमात्रं किं तु वृत्तिप्रतिबिम्बितं तञ्ध नाविद्याश्रय: ययावि द्याश्रयस्तका न विरोधि इत्यर्थः ॥ ६० ॥ ननु तर्हि शुद्धचितोऽज्ञानविरोधित्वाभावे घटादिवदप्रकाश त्वापत्तिरित्यत आह-* चित इति ' । वृत्यवच्छेदेन तस्या एव अज्ञानविरोधित्वात्स्वतस्तृणतूलादिभासकस्य सौरालोकस्य सूर्य कान्तावच्छेदेन खभास्यतृणतूलादिदाहकत्ववत्स्बतोऽविद्यातत्का र्यभासकस्य चैतन्यस्य वृत्त्यवच्छूदेन तद्दाहकत्वमविरुद्धमित्यर्थः॥६१॥ चिन्मात्रस्याविद्याश्रयत्वे प्रमाणमाह-“चित इति ? ॥ ६२ ॥ ल च * ज्ञा(१)5झावीशानीशौ'इति जीवाज्ञानप्रतिपादकश्रुतिाविरोध इति शङ्की, तदाश्रयत्वाभावेपि तत्कार्ययोगितया अक्षत्वव्यपदेशोपप क्षेरित्याह-- * अज्ञानेति ? ॥ ६३ ॥ नन्वचाक्षुषस्य चैतन्यस्य (१) वेताश्व० १ अ० थः ।।