पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे नीरूपस्यापि रूपंस्य प्रतिबिम्बो यथेष्यते । व्योम्रोप्यचाक्षुषस्येव ब्रह्मणः किन्न सम्भवेत् ॥६४॥ वस्तुतस्तु श्रुतेरेव प्रतिबिम्बश्चितेर्मतः । उपाधिबिम्बसम्बन्धानादित्वान्नास्य सादिता ।। ६५ ।। सर्वतः प्रसृतत्वेन चितोऽप्यव्यवधानतः । आभिमुख्यस्य सद्भावात्प्रतिबिम्बोऽञ्जसा भवेत॥६६॥ अवच्छेद्यांशमादाय सामानाधिकरण्यतः । बन्धमोक्षोपपत्तिश्च युक्तिभिः श्रुतिभिस्तथा ॥ ६७ ॥ गन्धरसादिवत्प्रतिबिम्बतानर्हत्वात्प्रतिबिम्बत्वे जीवस्य सादित्वा पाताश्धेत्याशङ्कयाह-- * नीरूपस्येति ?' । रूपवत एव प्रतिबि म्बइत्यस्या व्यामेरूपादौ व्यभिचाराद्यथा भङ्गः एवमाकाशादौ व्य भिचाराञ्चाक्षुषस्यैव प्रतिबिम्ब इत्यस्या अपि व्याप्तर्भङ्गः, वस्तुतस्तु श्रुतिबलाधितः प्रतिबिम्बे सिद्धे तत्रैव व्यभिचारान्नेयं व्याप्तिः तथा च रसादिव्यावृत्तं फलैकाक्षेयं प्रतिबिम्बप्रयोजक, नापि जीवस्य सादित्वापत्ति: उपाधिबिम्बसम्बन्धानादित्वेनानादित्वोपपतेरिति द्वयोस्तात्पर्यार्थः ॥ ६४ ॥ ६५ ॥ चिन्मात्राभिमुख्यसम्भवादपि तत्प्रतिबिम्बसम्भव इत्याह-“स- वैत इति ? ॥ ६६ ॥ बन्धमोक्षयोः सामानाधिकण्यमप्यस्तीत्याह

  • अवच्छेद्यांश इति ॥ ६७ ॥

॥ अविद्यायाश्चिन्मात्राश्रयत्वोपपत्तिः ॥ ननु शुद्धब्रह्णश्चिन्मात्रस्याशानाश्रयत्वे सार्वशविरोधः न .