पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावरूपाऽशाने श्रुत्युपन्यासः । प्रत्यूढा इति छान्दोग्ये नीहारेणा(१)वृता जनाः ॥५२॥ न(२)तं विदाथ इत्याद्या अन्याः सन्ति प्रमापिकाः । भावत्वेऽस्य तथा ज्ञाननिवत्र्यत्वे श्रुतिर्भवेत् ॥ ५३ ॥ विश्धमायानिवृत्तिः स्याद्भयश्चान्ते इति प्रमा । अज्ञानेऽनन्तशक्तित्वान्मायाशब्दोपपतिः ॥ ५४ ॥ जीवस्याप्यनवच्छिन्नब्रह्मानन्दाप्रकाशनात । साऽन्यथानुपपतिश्च मानमज्ञान इष्यते ॥ ५५ ॥ जीवस्य ब्रह्मरूपत्वादानन्दैकस्वरूपता । तदभानान्यथापत्तिः कथं स्यातिमिरं विना ॥ ५६ ॥ । ( १ ) तै संहिता ४ । ६ । २ । ७५. श्रुतित्रैह्मज्ञानप्रतिबन्धकत्वेनानृतं ध्रुवाणा तादृगझने प्रमाण * न तं विदाथ य इमा जजाने'स्याद्यारण्यकं च, अन्या अप्येवमेवेत्यर्थः ॥५२॥ ॥ ५३ ॥ झाननिवत्र्यत्वे ‘भूयश्चान्ते विश्वमायानिवृत्तिरित्यादिश्रुति मान्नामत्याह -“ विश्वेत्यर्धन ' । अज्ञानस्यैव चानिर्वचनीय विचित्रशक्तियोगान्न विचित्रशक्तिमति मायाशब्दप्रयोगानुपपति रित्याहं–“अज्ञान इत्यद्येन'। कचिन्मणिमन्त्रादौ तत्प्रयोग स्तूपचारादितिं द्रष्टव्यं ॥ ५४ ॥ जीवस्यानवच्छिन्नब्रह्मानन्दाप्रका शान्यथानुपपत्तिश्च तत्र प्रमाणमित्याह-* जीवस्येति?' ॥५५॥ तदेव द्रढयति-* जीवस्येति ” ॥ ५६ ॥ ॥ अविद्यायाँ प्रमाणोपन्यास: ॥ सा चाविद्या साक्षिवेद्या न तु शुद्धचित्प्रकाश्या साक्षी च अवि (२) तै० सं० ४ । ६ । २ ।