पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १परिच्छेदे उक्त विवरणाचायैस्तथान्यैर्बहुधेरितम् ॥ ४९ ॥ किं च ज्ञानविरोधित्वं सर्वज्ञानविरोधिगम् । अनादिभावतातुल्याधारकं दृश्यभाववत् ॥ ५० ॥ अनाद्यभावभिन्नत्वं सर्वज्ञानविरोधिगम् । अनाद्यभावभित्रैकनिष्ठत्वादभिधेयवत् ॥ ५१ ॥ प्रमाणं श्रुतयोऽप्यत्र न विन्दन्त्य(१)नृतेन हि । वत्यैस्वदेशगतवस्त्वन्तरपूर्वकं अप्रकाशितार्थप्रकाशकत्वातू अन्ध कारे प्रथमोत्पन्नप्रदीपप्रभावादितेि अत्र प्रमाणपदं प्रमाणवृत्तेरेव प• क्षत्वेन सुखादिप्रमायां साक्षिचैतन्यरूपायामशानानिवर्तिकायां बा धवारणाय धम्र्यशप्रमाणावृत्तेरिदमित्याकाराया अज्ञाननिवर्ति काया: पक्षबहिर्भावाय विवादपदमिति विशेषण विशेषाकारा प्र माणवृत्तिरिति फलितोर्थः ॥ ४९ ॥ तथान्यैरित्युक्तं विवृणेति –“ किंचेति ?’ । ज्ञानविरोधित्वं अनादिभावत्वसमानाधिकरणं सकलझानविरोधिवृतित्वातू इश्य श्ववत, यद्धा अनाद्यभावविलक्षणत्वं ज्ञानविरोधिवृत्ति अनाद्यभा वविलक्षणमात्रवृतित्वातू अभिधेयत्ववदिति एवमभावविलक्ष णाझानेऽनुमानान्यूहनीयानि ॥ ५० ॥ ५१ ॥ एवं श्रुतयश्च भावरु पाझाने प्रमाणं तत्र छान्दोग्येऽष्टमाध्याये * तद्यथा हिरण्यनिधिं नि हितमक्षेत्रज्ञा उपर्युपरि संचरंतो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढा' इति ( १ ) हा० ८ । ९ ।