पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालाद्यव्यवधान-त्वान्न ह्यात्मस्थमतीतभाक् ॥ ४५ ॥ न(१)भूतकालस्पृक्प्रत्यङ् चागाऽमिस्पृगीक्ष्यते । स्वार्थदेशः परोऽर्थोऽर्थो विकल्पस्तेन स स्मृतः ॥ ४६॥ न(२)चेंदनुभवव्याप्तिः सुषुप्तस्याभ्युपेयते । नावेदिषं सुषुतेऽहमिति धीः किंबलाद्भवेत् ॥ ४७ ॥ साक्ष्यज्ञानसुखाकारास्तिस्रोऽप्यज्ञानवृत्तयः । सुप्त्याख्या वृत्तिरेकैवाप्यस्तु तत्र न वा क्षतिः ॥ ४८॥ अज्ञाने भावरूपेऽस्मन्ननुमानं प्रमावहं । = राति—* नांते । कार्योपाधिविनाशसंस्कृतमज्ञानमात्रमेव प्रल थोपमं सुषुप्तिरित्यभिप्रायः ॥ ४५ ॥ अभावरूपाज्ञानखण्डने एव धार्तिकवचनद्वयं पुनरुदाहरति-- “न भूतेति । तमोगुणात्मका चरणमात्रालम्बना का चिद्वत्तिः सुषुप्तिरित्यभिप्रेत्य तदुपरक्तचैत न्यस्य तन्नाशेनैव नाशात्तत्कालीनाशानानुभवजनितसंस्कारवशेन न किञ्चिद्धेदिषमिति स्मरणमभ्युपेतमिति वार्तिकविवरणयोर विरोधः अतएवोक्तं वार्तिककारैरुषस्तब्राह्मणे * न चेदिति ' पद्य ॥ ४६ ॥ ४७ ॥ सुषुक्षौ वृत्तित्रयमेकैव वाऽविद्यावृत्तिरस्तु न तत्राग्र ह इत्याह-* साक्षीति । निर्विकल्पकस्यापि स्मरणजनक त्वं अहङ्कारोपरागकालीनत्वाभावेन तत्तानुलेख इति भावः ॥ ४८ ॥ तद्ध विवरणोक्तमनुमानं प्रमाणमित्याह --* अज्ञान इांते ' । विवादपदं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनि ( १ ) = १ श्र० ४ ब्रा० बा० स्रो० ३० १ । ( २) इ० ३. भ० ४ ब्रा० वार्तिकै झी० १०३ ।